SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ यशोविजयोपाध्यायविरचिता [श्रीमुनिसुव्रतपुनः किं० :' संग्रामैः 'रहितम्' उज्झितम् , प्रशमोपदेश तया रणरसाभिनिवेशत्यागहेतुत्वादाहतमतस्य । पुनः किं. ? मपुयोगेंन-सूत्रार्थनियुक्तिमिश्रितार्थनिरवशेषार्थभेदभिन्नेन व्याख्यानविधिना भृतं-पूर्णम् । किं कुर्वत् ? योग-श्रुताध्ययनयोम्यताऽऽपादकं क्रियाविशेषं बिभर्ति-पुष्णातीति योगभृत् तम् 'मनु' लक्षीकृत्य 'अतिहितहेतुतां' परमहितावहतां 'दधत्" बिभ्रत् । पतेन अनूढयोगानामध्ययनानधिकारित्वमुक्तम् , न चैतदयुतम्,पर्यायविशेष प्रतिनियमेनैव प्रवचने तत्तत्प्रवचनोद्देशाद्यनुज्ञानात् , अन्यथा तदनुपपत्तेः महानिधानकल्पस्य सिद्धान्तस्य विना विधिग्रहणेऽपायसम्भवाच्च, अत एव शि. क्षाधिकारे शैक्षस्य योगवत्त्वगुणोक्तिरपि सङ्गतेति दिग॥३॥ वितरतु वाञ्छितं कनकरुग् भुवि गौर्ययशो हृदिततमा महाशुभविनोदिविमानवताम् । रिपुमदनाशिनी विलसितेन मुदं ददती, - हृदि ततमाऽऽमहाऽऽशु भविनो दिवि मानवताम्॥४॥ ॥ इति श्रीमुनिसुव्रतजिनस्तुतिः ॥ २० ॥ वितरत्विति ॥ गौरी 'भुवि' पृथिव्याम् 'आशु' शीघ्रं भविनः भव्यलोकस्य 'ततं' विस्तीर्ण 'वाञ्छितम्' ईप्सितं 'वितरतु' ददातु। गौरी किं० ? कनकस्येव सुवर्णस्येव रुक्-कान्तिर्यस्याः सा तथा। पुनः किं० ? अयश:-अकीर्तिः हरतीति अयशोहृत् । पुनः किं ? १“ततौ-विस्तीर्णौ मामही लक्ष्म्युत्सवौ यस्याः सा इत्येकमेव वा पदम्," इत्यवचूर्याम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy