SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ऐन्द्रस्तुतिचतुर्विंशतिका । दिशतु गिरा निरस्तमदना रमणीहसिता - वलितरसे ! हितानि सुरवारसभाजितया ॥ २ ॥ अवतीति ॥ हे ' रमणी० रसे !, रमणीनां -कामिनीनां हसि - तेन- स्मितेन अवलितः - अचलितो रसः - शान्ताख्यो यस्यास्तस्या आमश्रणम्, हे 'पारगतावलि !" तीर्थंकर श्रेणि ! भवती मयि 'आशु' शीघ्रम् 'ईहितानि वाञ्छितानि हितानि 'दिशतु' ददातु । भवती किं० ? 'सुरखा' शोभनध्वनिः । पुनः किं० ? तथा 'गिरा' वाण्या ' तरसा' वेगेन 'निरस्तमदना' प्रध्वस्तकामा । किम्भूतया गिरा ? सुरवारेण - देवसमूहेन सभाजितया - सेवितया । तया कया ? या 'जगन्ति' भुवनानि 'अवति' रक्षति । मयि किम्भूते ? रसं भजतीति रसभाक् तस्मिन् ॥ २ ॥ यतिभिरधीतमार्हतमतं नयवज्रहताऽघनगम भङ्गमानमरणैरनुयोगभृतम् । अतिहितहेतुतां दधदऽपास्तभवं रहितं, खुतिः । ] घनगमभङ्गमाऽऽनम रणैरनु योगभृतम् ॥ ३ ॥ यतिभिरिति ॥ हे जन ! त्वम् 'आर्हतमतं' जैनेन्द्र प्रवचनम् 'आम' नमस्कुरु । किम्भूतम् ? 'यतिभिः' वाचंयमैः 'अधीतं' पठितम्, यतिभिः किम्भूतैः ? नास्ति भङ्गः - पराजयो मान:- अहङ्कारो मरणं - मृत्युश्च येषां ते तथा तैः । पुनः किं० ? नया एक वज्राणि - पवयस्तैर्हता अघनगाः- पातकशैला येन तत् । पुनः किं० १ अपास्तः - निराकृतो भवः - संसारो येन तत् । पुनः किं० ? घनाःनिबिडाः गमाः - सदृशपाठाः भङ्गाश्च - विकल्पविशेषा यत्र तत् । Jain Education International ६५ For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy