SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६४ यशोविजयोपाध्यायविरचिता [ श्रीमुनिसुव्रत 'द्युतिः' उज्ज्वलवर्णा । पुनः किं० ? पटु - निपुणं रणन्ती या अच्छानिर्मला कच्छपी - वीणा तस्या विलासः - प्राममूर्च्छनादिरूपस्तं भजति या सा । पुनः किं० ? 'अविकृतधीः' अपरिप्लुतमतिः । पुनः किं० ? तापं ददाति या सा तापदा, न तादृशी अतापदा ॥ ४ ॥ ॥ इति श्रीमल्लिनाथस्तुतिविवरणम् ॥ १९ ॥ तव मुनिसुव्रत ! क्रमयुगं ननु कः प्रतिभा - वनधन ! रोहितं नमति मानितमोहरणम् । नतसुरमौलिरत्नविभया विनयेन विभ वनघ ! नरो हितं न मतिमानितमोहरणम् ॥१॥ तवेति ॥ हे 'प्रतिभावनघन !' प्रतिभा - सद्यः स्फूर्तिमती बुद्धिः सैव वनं - विपिनं तत्र घन इव - मेघ इव तदुल्लासकारित्वात् यः तस्य आमन्त्रणम्, हे 'अनघ !' निष्पाप !, हे 'विभो' ! हे स्वामिन् !, हे मुनिसुव्रत ! तव 'मयुगं' चरणयुगलं को 'मतिमान् ' पण्डितः 'नर' पुरुषः 'ननु' इति निश्वये विनयेन न 'नमति' नमस्कुरुते ? अपि तु सर्व एव नमस्कुरुत इत्यर्थः । क्रमयुगं किं० १ नतानां सुराणां देवानां ये मौलय:- मुकुटास्तेषां यानि रत्नानि तेषां विभया - कान्त्या 'रोहित' पाटलम् । पुनः किं० १ मानिनां - मानवतां तमस:-अज्ञानस्य हरणं - नाशकम् । पुनः किं० ? ' हितं ' हितकारि, पुनः किं० ? इतौ तौ मोहरणौ - अज्ञानसंग्रामौ यस्य सकाशात् तम् ॥ १ ॥ अवति जगन्ति याऽऽशु भवती मयि पारगतावलि ! तरसेहितानि सुरवा रसभाजि तथा । -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy