SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ स्तुतिः। ऐन्द्रस्तुतिचतुर्विंशतिका । जिनः स्म यं पठितमनेकयोगिभि मुंदा रसं गतमपरागमाऽऽह तम् । सदागमं शिवसुखदं स्तुवेतरा मुदारसङ्गतमऽपरागमाहतम् ॥३॥ जिन इति ॥ अहं तं 'सदागमम्' उत्तमसिद्धान्तं 'स्तुवेतराम् अतिशयेन स्तवीमि । किम्भूतम् ? 'शिवसुखदं' मोक्षसुखदम् । पुनः किं० ? उदारं-महापं च तत् सङ्गतं-सङ्गतियुक्तं चेत्यर्थः । पुन: किं० १ अपरागमैः-तत्रान्तरीयसिद्धान्तैः अहतम्-अबाधितम् । तं कम् ? यं 'जिनः' भगवान् 'आह स्म' ब्रूते स्म । किम्भूतम् । 'अनेकयोगिभिः' निःशेषसाधुभिः 'पठितम्' अधीतम्, कया ? 'मुदा' हर्षेण । पुनः किं० १ 'रसं' शान्ताख्यं गतं' प्राप्तम् । पुनः किं० ? अपगतो रागो यस्मात् तम् , क्रियाविशेषणं वा एतत् ॥३॥ तनोतु गीः समयरुचिं सतामना विला सभा गवि कृतधीरतापदा । शुचिद्युतिः पटुरणदच्छकच्छपीविलासभागऽविकृतधीरतापदा ॥४॥ ॥ इति श्रीमल्लिजिनस्तुतिः॥ १९॥ तनोत्विति ॥ गीः' भारती 'सताम्' उत्तमानां 'गवि' पृथिव्यां 'समयरुचि' प्रवचनश्रद्धां तनोतु' विधत्ताम् । किम्भूता ? 'अनाविला' निर्मला। * पुनः किम्भूता ? 'सभा' सह भया-प्रशस्तकान्या वर्त्तते या सा । पुनः किम्भूता ? 'कृतधीरतापदा' कृतंविहितं धीरतायां-धैर्ये पद-स्थानं यया सा । * पुनः किं ? 'शुचि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy