SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ यशोविजयोपाध्यायविरचिता [ श्रीमल्लिजिन महोदयमिति ॥ हे 'अघनाघ ! ' नास्ति घनं - निबिडम् अघं - पापं यस्य तस्यामन्त्रणम्, हे 'नोदितपरमोहमान !' नोदितौ - प्रेरितौ विसंस्थूलीकृतौ परेषां मोहमानौ - अज्ञानाहङ्कारौ येन तस्यामन्त्रणम्, हे मल्लिनाथ ! स त्वं 'मे' मम 'महोदयं' मोक्षं महानाम् - उत्सवानां वा उदयं 'प्रवितनु' कुरु । स कः ? यस्त्वं महाव्रतान्येव घनानि - सान्द्राणि काननानि वनानि तेषु 'घनाघनः' मेघः अभूः, यथा घनाघनः काननस्फातिं जनयति तथा त्वया महाव्रतस्फातिर्जनितेत्यर्थः । त्वं किं० ? अदिताः - अखण्डिताः परमाः - उत्कृष्टा ऊहाः - विचाराः यत्र एतादृशं मानसं - हृदयं यस्य स तथा ॥ १ ॥ मुनीश्वरैः स्मृत ! कुरु सौख्यमर्द्दतां सदा नतामर ! समुदाय ! शोभितः । घनैर्गुणैर्जगति विशेषयन् श्रिया, ६२ सदानतामरस! मुदा यशोऽभितः ॥ २ ॥ मुनीश्वरैरिति ॥ हे 'स्मृत!' स्मृतिविषयीकृत !, कै: ? 'मुनीश्वरैः' योगीन्द्रैः कया ? 'मुद्रा' हर्षेण; हे ' नतामर !' प्रणतत्रिदश ?, हे 'सदानतामरस!' दानं त्यागः तामरसं च-कमलम् सह ताभ्यां वर्तते यस्तस्यामन्त्रणम्, हे 'समुदाय !' चक्रवाल !, केषाम् ? 'अर्हतां' तीर्थकराणाम् त्वं 'सदा' निरन्तरं सौख्यं कुरु । किम्भूतः ? 'श्रिया' अतिशयादिलक्ष्म्या 'शोभितः ' भ्राजितः । किं कुर्वन् ? 'घनैः' बहुलै : 'गुणैः' औदार्यादिभिः 'जगति' विश्वे 'अभितः' समन्तात् ' यश:' श्लोकं 'विशेषयन्' अतिशयानः ॥ २ ॥ १ “परौ - प्रकृष्टौ ” मोहमानविशेषणतयाऽवचूर्याम् ॥ ; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy