Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
निका
११
स्तुतिः ।] ऐन्द्रस्तुतिचतुर्विंशतिका । दलयतु दुष्कृतं जिनवरागमभक्तिभृतामनारतं, सुरविनता तनुभवपृष्ठमनु दितापदरङ्गतारवाक् ॥ ४॥
॥ इति श्रीअरनाथस्तुतिः॥ १८ ॥ चक्रधरेति ॥ 'चक्रधरा' चक्रेश्वरी ‘जिनवरागमभक्तिभृताम्' अर्हच्छासनभक्तानाम् 'अनारतम्' निरन्तरं 'दुष्कृतं पापं 'दलयतु' खण्डयतु । किम्भूता ? 'अधिष्ठिता' स्थिता, किम् ? प्रभासुर:देदीप्यमानो यो विनतातनुभवः-गरुडः तस्य पृष्ठम् , किम्भूतम् ? कराला-भीषणा ये परे-वैरिणः तेषां घातेन-हननेन बलिष्ठं-अतिशयितबलवत् । चक्रधरा किम्भूता ? अनुदिता-अनुत्पन्ना आपद्-विपत्तिर्यस्याः सा । * पुनः किं० ? 'अरम्' अत्यर्थं गता आरवाक्-शात्रववाणी यस्याः सा । * पुनः किं० ? सुरैः-देवैः विनतानमस्कृता । पुनः किं० ? 'तनुभवपृष्ठं' स्वल्पभवशेष स्वल्पभवप्रश्नं वा 'अनु' लक्षीकृत्य दितापदऽरङ्गा-खण्डितविपद्रङ्गविरहा तारामनोहरा च वाग् यस्याः सा तथा, प्रतनुकर्मणामभिलषितफलदस्वाद् भगवतः समीपे तद्भवप्रश्नपूर्व तत्तदिहापनोदाद् वेति भावः॥४॥
॥ इति श्रीअरनाथस्तुतिविवरणम् ।। १८॥ महोदयं प्रवितनु मल्लिनाथ ! मेऽ
घनाघ! नोदितपरमोहमान ! सः। अभूर्महाव्रतधनकाननेषु यो,
घनाघनोऽदितपरमोहमानसः॥१॥ अत्र 'पृष्ठ-पृष्ट'शब्दाभ्यां व्याख्याऽवबोद्धव्या ॥ २ अवचूर्याम्"दितापदा-खण्डितास्थानाऽत एव रङ्गेण तारा वाग-वाणी यस्याः सा।"इति ॥ ३ "तत्तदीहा" इति भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115