Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 63
________________ ५८ यशोविजयोपाध्यायविरचिता [अनन्तजिनत्रिदशपूज्यमनन्तजितं जिनं, कलितमोदमनं तरसाऽऽश्रये ॥१॥ .- कलितमोदमिति ॥ अहम् अनन्तजितं जिनं 'तरसा' वेगेन 'आश्रये' सेवे । किम्भूतम् ? कलितः-धृतो मोदः-हर्षों येन स तथा तम् । पुनः किं० ? स्थितम् , क ? 'शिवपदे' मुक्तिस्थाने, किम्भूते ? अनन्तः-अन्तरहितो यो रसः-शान्ताख्यः तदाश्रयेतद्गृहे, अनन्ताहा या रसा-पृथिवी ईषत्प्रारभाराख्या तस्या आश्रयः-व्यवहारत आधारो यस्य तत् तथा तत्र इति वा । पुनः किम्भूतम् ? अस्ता-ध्वस्ता भवापत्-भवविपत्तिः येन स तथा तम्। पुनः किं० ? त्रिदशानां देवानां पूज्यं-पूजनीयम् । पुनः किं० ? कलि:-सङ्ग्रामः तमश्च-पापं तयोः दमनं-तन्नाशकारिणमित्यर्थः॥१॥ जिनवरा गततापदरोचितां, प्रददतां पदवीं मम शाश्वतीम् । दुरितहृदचना न कदाचनाऽs जिनवरागततापदरोचिताम् ॥ २॥ ...जिनवरा इति ॥ 'जिनवराः' तीर्थङ्करा मम 'शाश्वती' ध्रुवां 'पदवीं' मोक्षमार्गलक्षणां प्रदतां प्रयच्छन्तु । किम्भूताम् ? गतः तापः-आध्यात्मिकादिलक्षणो दरश्च-भयम् इहलोकादिलक्षणं यस्यास्तादृशी न्यायाद् उचिता-अनुरूपा च ताम्। जिनवराः किम्भूताः ? दुरितहृत्-पापहारि वचनं येषां ते । पदवी किम्भूता ? 'कदाचन' जातुचित् 'न' नैव आजिः-सङ्कामो नवरागश्च-अभि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115