Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 70
________________ स्तुतिः। ऐन्द्रस्तुतिचतुर्विंशतिका । श्रीशान्तिक्रमयुग्मसेवनरता नित्यं हतव्यग्रतापातादानतमा नवासु रहिताऽरुच्या सुमुद्राऽऽजिषु ॥ ॥ इति श्रीशान्तिजिनस्तुतिः ॥ १६ ॥ शत्रूणामिति ॥ हे 'सुमुद्र !' सुष्टु-शोभना मुद्रा यस्य तस्याऽऽमत्रणम् , 'शासनस्वामिनी' शासनदेवता त्वां 'पाताद्' रक्षतात् । किम्भूता ? 'शत्रूणां' वैरिणाम् 'आजिषु' संग्रामेषु घनेनबहलेन धैर्येण-धीरिमगुणेन निर्जितं भयं यया सा । पुनः किं० ? आ-समन्तात् नता:-प्रणता ये मानवाः-मनुष्या असुराश्च-भवनपतिविशेषास्तेषां हिता-अनुकूला । पुनः किं० ? सुष्टु-शोभना मुद्-आनन्दो येषां ते सुमुदः तेषां राजिषु-श्रेणिषु मध्ये 'रुच्या' मनोहरा । पुनः किं ? 'नित्यं' निरन्तरं श्रीशान्ते:-श्रीशान्तिनाथस्य यत् क्रमयुगं-चरणयुगलं तस्य यत् सेवनं-पर्युपासनं तत्र रतासक्ता । पुनः किं० ? हतानि-निराकृतानि व्यग्रता-आकुलत्वलक्षणा पात:-मार्गच्यवनलक्षणः अदानं च-कृपणतालक्षणं तान्येव तमांसि-ध्वान्तानि चया सा तथा। आजिषु किम्भूतासु ? 'नवासु' प्रत्यग्रासु । पुनः किम्भूता ? 'अरुच्या' अनभिलाषेण रहिता' वियुता ॥४॥ ॥ इति श्रीशान्तिजिनस्तुतिविवरणम् ॥ १६ ॥ स जयति जिनकुन्थुर्लोभसंक्षोभहीनो, महति सुरमणीनां वैभवे सन्निधाने । इह भवति विना यं मानसं हन्त केषा महति सुरमणीनां वै भवे सन्निधाने ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115