SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ स्तुतिः ।] : ऐन्द्रस्तुतिचतुर्विंशतिका । ४९ नवाभिष्वङ्गलक्षणः ताभ्यां तता विस्तीर्णा या आपद् - विपत्तिः तयाऽरोचिता - अरुचिविषयीकृता * ताम् * ॥ २ ॥ सुरसमानसदक्षरहस्य ! ते, मधुरिमाऽऽगम ! सोsस्तु शिवाय नः । ३ ॥ जगति येन सुधाऽपि घनप्रभासुरसमान सदक्षर ! हस्यते ॥ सुरेति ॥ हे ' सुरसमानसदक्ष रहस्य !' सुष्ठु - शोभनो रसो यत्र तादृशं मानसं चित्तं येषां ते च ते दक्षा:- निपुणाश्च तेषां रहस्य ! – उपनिषद्भूत !, हे 'घनप्रभासुरसमानसदक्षर !' घनानिनिविडान प्रभासुराणि - देदीप्यमानानि समानानि - मानसहितानि सन्ति - उत्तमानि अक्षराणि यस्य स तथा तस्यामन्त्रणम्, हे आगम ! 'ते' तव सः 'मधुरिमा' आस्वादसंवेद्य माधुर्यगुणः * 'नः ' अस्माकं* 'शिवाय' मोक्षायाऽस्तु । स कः ? येन 'जगति' विश्वे 'सुधाsपि' अमृतमपि 'हस्यते' विडम्ब्यते ॥ ३ ॥ सदसि रक्षति भासुरवाजिनं, जगदिता फलकेषुधनुर्धरा । जयति येयमिह प्रणताऽच्युता, सदसिर क्षतिभा सुरवा जिनम् ॥ ४ ॥ ॥ इति श्री अनन्तजिनस्तुतिः ॥ १४ ॥ सदसीति ॥ इयमच्युता 'इह' जगति 'सदसि' पर्षदि जयति । किम्भूता ? ' प्रणता ' कृतप्रणामा, कम् ? ' जिनम्' भगवन्तम्, १ निपुणाश्च गणधरादयो बोद्धव्याः । ऐ. च. ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy