________________
यशोविजयोपाध्यायविरचिता [श्रीधर्मजिनअनेन सम्यग्दृष्टित्वमाह । पुनः किं० ? 'सदसिः' सन्-शोभनः असिः खड्गो यस्याः सा तथा । पुनः किं० ? 'अक्षतिभा' नास्ति क्षतिः-दूषणं यस्यां सा अक्षतिः तादृशी भा-कान्तिर्यस्याः सा तथा । पुनः किं० ? 'सुरवा' सुष्टु-शोभनः रवः-शब्दो यस्याः सा तथा। इयं का ? या 'जगद्' विश्वं 'रक्षति' पालयति, किम्भूता ? 'इता' प्राप्ता, कम् ? 'भासुरवाजिनं' देदीप्यमानतुरङ्गम् । पुनः किं० ? फलकं च इषुश्च धनुश्च फलकेषुधनूंषि तानि धरति किंमणसा (?)॥ ४ ॥
॥ इति श्रीअनन्तजिनस्तुतिविवरणम् ॥ १४ ॥ श्रीधर्म! तव कर्मद्रु-वारणस्य सदायते!। स्तवं कर्तुं कृतद्वेषि-वारणस्य सदा यते ॥१॥ श्रीधर्मेति ॥ हे 'सदायते !' सती-शोभना आयतिः-उत्तरकालो यस्य स तथा तस्य आमन्त्रणम् , हे श्रीधर्म ! अहं सदा जितं अनंततां च क्षिप्रं कर्तुं 'यते' उद्यतो भवामि । किम्भूतस्य तव ? कर्मैव दुः-विस्तीर्णत्वाद् वृक्षः तत्र वारणस्य-हस्तिनः । पुनः किम्भूतस्य ? कृतं-विहितं द्वेषिणां-बाह्याभ्यन्तरवैरिणां वारणं निराकरणं येन स तथा तस्य ॥ १ ॥
गिरा त्रिजगदुद्धारं, भाऽसमाना ततान या । श्रिया जीयाद् जिनाली सा, भासमानाऽततानया ॥२॥
गिरेति ॥ सा 'जिनाली' तीर्थङ्करश्रेणिः जीयात् । किम्भूता ? 'श्रिया' अतिशयप्रातिहार्या दिलक्ष्म्या 'भासमाना' शोभमाना। पुनः
। अत्र "सदा' अनिशं तव 'स्तवं' स्तवनं कर्तु." इति भाव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org