________________
स्तुतिः।]. ऐन्द्रस्तुतिचतुर्विशतिका । किम्भूता ? अततः-अविहितोऽनयः-अपन्यायो यया सा । सा का? या 'गिरा' वाण्या कृत्वा 'त्रिजगदुद्धारं' त्रिभुवननिस्तारं 'ततान' चकार । किम्भूता ? भया-कान्या असमाना-निरुपमाना ॥२॥ . वचः पापहरं दत्त-सातं केवलिनोदितम् ।
भवे त्राणाय गहने, सातके बलिनोदितम् ॥३॥ वचः पापेति ॥ केवलिना' तीर्थकृता 'उदितं' गदितं 'वचः' वचनं गहने निबिडे 'भवे' चतुर्गतिरूपसंसारे 'त्राणाय' पतनप्रतिबन्धाय, अस्तु * इति शेषः * । भवे किम्भूते ? 'सातङ्के सह आतङ्केन-जन्मजरामरणादिभयेन वर्त्तते यस्तस्मिन् । वचः किम्भूतम् ? 'पापहरं' दुरितनाशि । पुनः किम्भूतम् ? दत्तं सात-सुखं येन तत् तथा । पुनः किं ? बलिभिः-नैयायिकादिभिः तत्रान्तरीयैनोंदितं-प्रेरितम् ॥ ३ ॥
दधुः प्रसादाः प्रज्ञष्ट्याः, शक्तिमऽत्याजितादराः। 'तस्या यया द्विषां सर्वे, शक्तिमत्या जिता दराः ॥४॥
॥ इति श्रीधर्मजिनस्तुतिः ॥ १५ ॥ दद्युरिति ॥ तस्याः प्रज्ञप्त्याः 'प्रसादाः' वरप्रदानलक्षणाः 'शक्ति' सामर्थ्य दद्युः । किम्भूताः ? अत्याजितः-अमोचित आदर:-पुनःपुनरुपायप्रवृत्तिलक्षणो यैस्ते । तस्याः कस्याः १ यय 'द्विषां वैरिणां 'सर्वे' समस्ताः 'दराः' भयानि 'जिताः' निराकृताः । यया किम्भूतया ? शक्तिः-शस्त्रविशेषः सामर्थ्य वाऽस्ति यस्याः सा शक्तिमती तया ॥४॥
॥ इति श्रीधर्मजिनस्तुतिविवरणम् ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org