SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ यशोविजयोपाध्यायविरचिता [शान्तिजिनअस्याभूद् व्रतघाति नातिरुचिरं यच्छ्रेयसे सेवना दक्षोदं भरतस्य वैभवमयं साराजितं तन्वतः। लिप्सो! शान्तिजिनस्य शासनरुचिं सौख्यं जयद् ब्रह्म भोः!, दक्षोऽदम्भरतस्य वै भवमयं साराजितं तन्वऽतः॥१॥ अस्येति ॥ भोः 'ब्रह्म' मोक्षं लिप्सो!' लब्धुमिच्छो ! त्वम् अतः कारणात् शान्तिजिनस्य 'शासनरुचिं' प्रवचनश्रद्धां 'तनु' विधेहि । ब्रह्म किं कुर्वत् ? 'जयत्' अतिशयानम् , किम् ? सौख्यम् , कीदृशम् ? 'भवमयं' मयटो विकारार्थत्वात् कर्मशक्तितिरस्कृतशक्तिकस्यात्मनः संसारानुभावोपनीतेन्द्रियेष्टविषयसम्बन्धविकाररूपमित्यर्थः । पुनः किं० ? सया-चक्रवादिलक्ष्म्या राजितं-शोभितम् । शान्तिजिनस्य किम्भूतस्य ? 'वै' निश्चितम् 'अदम्भरतस्य' मायामैथुनरहितस्य । त्वं किंरूपः ? 'दक्षः' निपुणः। अतः कुतः ? 'यत्' यस्मात् कारणात् 'अस्य' शान्तेः 'भरतस्य' षट्खण्डमुखक्षेत्रस्य वैभवं' प्रभुत्वं 'बतघाति' चरण(मंतिगति)प्रतिपन्थि नाभूत् । अयं हि भर्त्त अम......परमैश्वर्यचर्या सार्वभौमपदवीम् , अलिप्तेन मनसा चोपभुज्य भोगान् , उचिते च समये तृणवद् अपहाय तान् , उद्धर्तुं संसारपङ्कनिमग्नं जगत् , प्रवर्त्तयितुं धर्मतीर्थ प्र[व]बाज राजन्यमौलिमालार्चितचरणकमल इति युक्तमस्य भजनम् । वैभवं किम्भूतम् ? 'अतिरुचिरम्' अतिमनोहरम् । अस्य किं कुर्वतः ? 'सेवनात्' भजनात् हेतोः 'श्रेयसें' कल्याणार्थम् १ अक्षरचतुष्टयमेतदधिकमाभाति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy