________________
स्तुतिः।] ऐन्द्रस्तुतिचतुर्विशतिका । 'अक्षोदं' क्षोदरहितम् 'अयम्' इष्टदैवं तन्वतः । अयं किम्भूतम् ? सारेण-बलेन अजितं-अपराजितम् ॥ १॥ येषां चेतसि निर्मले शमवतां मोक्षाध्वनो दीपिका,
प्रज्ञालाभवतां क्रिया सुरुचिताऽरं भावनाभोगतः। ते श्रीमजिनपुङ्गवा हतभया नित्यं विरक्ताः सुखं, प्रज्ञाला भवतां क्रियासुरुचितारम्भावना भोगतः ॥२॥
येषामिति ॥ ते श्रीमजिनपुङ्गवाः भवतां' युष्माकं सुखं क्रियासुः । किम्भूताः ? हतं भयं यैस्ते तथा । पुनः किं ? 'नित्यं' सदा 'भोगतः' विषयोपभोगात् 'विरक्ताः' निवृत्ताः । पुनः किं० ? 'प्रज्ञालाः' बुद्धिमन्तः । पुनः किं ? उचितः-मोक्षसाधक आरम्भ:-उद्यमो येषां ते उचितारम्भाः तेषामवनं-रक्षणं येभ्यस्ते तथा । ते के ? येषां 'चेतसि' हृदये 'क्रिया' सदनुष्ठानात्मिका 'सुरुचिता' अतिशयेन रुचिमुपगता । कस्मात् ? भावनानाम्अहिंसादिव्रतसम्बन्धिनीनां ध्यानभूमिकाभूतवासनानां * वा * य आभोगः-प्रपञ्चः तस्मात् । चेतसि किम्भूते ? 'अरम्' अत्यर्थ 'निर्मले' अश्रद्धादिमलरहिते । येषां किम्भूतानाम् ? 'शमवताम्' उपशमशालिनाम् । पुनः किम्भूतानाम् ? प्रज्ञायाः-मार्गानुसारिज्ञानस्य यो लाभः-प्राप्तिस्तद्वताम् , अनेन ज्ञानक्रियासमुच्चयमाह । क्रिया किम्भूता ? 'मोक्षाध्वनः' मोक्षमार्गस्य दीपिका, तत्प्रकाशकत्वादिति भावः ॥ २ ॥ १ "क्रिया सुरुचिता" "प्रज्ञालाभवताम्" इत्यनेन इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org