________________
१४ यशोविजयोपाध्यायविरचिता [शान्तिजिनमिथ्यादृष्टिमतं यतो ध्रुवमभूत् प्रध्वस्तदोषात् क्षिता
वाचारोचितमानमारयमदम्भावारिताऽपाप! हे!। तं सिद्धान्तमभङ्गभङ्गकलितं श्रद्धाय चित्ते निजे,
वाचा रोचित ! मानमारयमदं भावारितापापहे ॥ ३ ॥ मिथ्येति ॥ हे अपाप !' पापरहित !, हे 'अदम्भावारित !' अदम्भैः-अकपटैः अवारितः-अनिषिद्धप्रवृत्तिकः यथावद् मार्गानुयायीत्यर्थः तस्यामत्रणम् , हे 'रोचित!' अङ्गीकृत !, कया? 'वाचा' सरस्वत्या, त्वं तं सिद्धान्तं 'निजे' स्वीये चित्ते 'श्रद्धाय' श्रद्धायामुपगम्य 'आनम' नमस्कुरु । किम्भूतम् ? अभङ्गाः-भङ्गरहिता ये भङ्गाः-विकल्पविशेषास्तैः कलितं-शोभितम् । पुनः किं० ? मान:अहङ्कारो मार:-कामो यमश्च-मृत्युः तान् द्यति-खण्डयति यः स तथा तम् । पुनः किं ? आचारेण-सदनुष्ठानेन उचितम्-अनुरूपम् । चित्ते किम्भूते ? भावारीणां-क्रोधादिकषायाणां तापःदुःखानुभवलक्षणः तम् अपहन्ति यत् तत् तथा तस्मिन् । तं कम् ? 'यतः' यस्मात् 'क्षितौ' पृथिव्यां 'ध्रुवं' निश्चितं 'मिथ्यादृष्टिमतं' कणादादिशास्त्ररूपम् 'अरयम्' अप्रसरमभूत् । यतः किम्भूतात् ? प्रध्वस्तः–विनाशितः दोषः-अज्ञानादिः येन (इष्टतया) तस्मात् ॥३॥ शत्रूणां घनधैर्यनिर्जितभया त्वां शासनस्वामिनी, पातादानतमानवासुरहिता रुच्या सुमुद्राजिषु । १ व्याख्यान्तरमस्यावचर्याम्-“वा' पूरणे, 'चारो !' अभिराम ! चितमानमारयमदं' चितान्-पुष्टान् मानादीन् द्यतीति वा ।" २ अक्षरचतुष्टयमधिकामिव प्रतिभाति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org