Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 56
________________ स्तुतिः।] ऐन्द्रस्तुतिचतुर्विशतिका 1. ४१ ञ्छितपदार्थान 'पूरयन्ती' इष्टसिद्ध्या निवृत्तेच्छान् कुर्वती, 'किम्' उत्प्रेक्षे 'साक्षात्' प्रत्यक्षा 'कल्पवल्लिः' सुरतरुव्रततिः, किम्भूता ? विबुधैः-देवैः परिगता-आश्रिता । सा का ? या क्रोधः-परितापलक्षणो मानश्च-स्वगुणाभिष्वङ्गलक्षणो अतिश्च-शोकादिलक्षणा माया च-परवञ्चनलक्षणा क्रोधमानातिमायाः, ता हरति या सा। पुनः किं० ? राजीववत्-कमलवत् नेत्रे-लोचने यस्याः सा तथा । पुनः किं० ? दमे-इन्द्रियविजयलक्षणे रसः-दृढचित्तादरो यस्याः सा तथा । पुनः किं० ? 'अतापा' तापरहिता।पुनः किं. ? 'तमोहा' पापत्यागकारिणी ॥ २॥ उत्तुङ्गस्त्वय्यभङ्गः प्रथयति सुकृतं चारुपीयूषपीनाss स्वादे शस्तादराऽतिक्षतशुचि सदनेकान्त ! सिद्धान्तरागः। रङ्गभङ्गप्रसङ्गोल्लसदसमनये निर्मितानङ्गभङ्गस्वादेश स्तादरातिक्षतशुचिसदने कान्तसिद्धान्त! रागः॥ उत्तुङ्ग इति॥हे 'शस्तादर!' शस्तः-प्रशस्त आदरो यस्य शस्तेकल्याणे वा आदरो यस्य, कल्याणकरणबद्धाभिनिवेशत्वा *त् , तस्याऽऽमत्रणम, हे 'स*दनेकान्त !' *सन्-शोभनः अनेकान्तः-*स्वविषयः स्याद्वादो यस्य तस्यामत्रणम् , हे निर्मितानङ्गभङ्गस्वादेश !! निर्मित:-विहितोऽनङ्गभङ्ग:-कन्दर्पप्रतिघातो यैरेतादृशाः सुष्टुशोभना आदेशा:-अबद्धश्रुतोपदेशा विधयो वा यस्य स तस्यामत्रणम् , हे 'कान्तसिद्धान्त !' मनोहरागम ! त्वयि मम 'अभङ्गः' अक्षयः 'रागः' प्रेम 'उत्तुङ्गः' प्रतिक्षणं प्रवर्द्धमानः 'स्तात्' भवतु । १ "हे 'शस्त !' प्रशस्त ! 'अदर ! निर्भय ! इति पदद्वयं वा" इत्यवचूर्याम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115