Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
यशोविजयोपाध्यायविरचिता [ विमलजिन
जिता विभा-कान्तिर्यस्य स सभाजितविभः, न सभाजितविभोऽसभाजितविभः, पुण्यः-पवित्रः आशयः-अध्यवसायो यस्य स पुण्याशयः, पुण्याशयश्चासौ असभाजितविभश्च पुण्याशयासभाजितविभः तस्यामत्रणम् । हे 'विमलविश्वमारक्षते!' माराद् या क्षतिः मारक्षतिः-कन्दर्पजनिता गुणपरिहाणिरित्यर्थः, विश्वा-सर्वा चासौ मारक्षतिश्च विश्वमारक्षतिः, मलः-बद्ध्यमानं कर्म अपि पथं वा (?) मलश्च विश्वमारक्षतिश्च मलविश्वमारक्षती, वि-गते मलविश्वमारक्षती यस्य स तथा तस्यामन्त्रणम् ; अथवा विमला विश्वा-पृथिवी यस्मात् असौ विमलविश्वः, मारस्य-कन्दर्पस्य क्षतिः-क्षयो यस्मादसौ मारक्षतिः, विमलविश्वश्चासौ मारक्षतिश्चेति कर्मधारयगर्भमामन्त्रणं व्याख्येयम् ; स्वतनं वेदमामअणद्वयम्-हे 'विमल !' मलरहित !, हे 'विश्वमारक्षते !' विश्वस्य-सर्वस्य मारस्य-मरणहेतोः क्षतिः-क्षयो यस्मात् तस्यामन्त्रणम् इति व्याख्येयम् । हे विमल ! 'ते' तुभ्यं नमः, अस्तु इति शेषः । ते किम्भूताय ? 'असमदमाय' असम:-निरुपमो दमः-इन्द्रियजयो यस्य स तथा तस्मै । पुनः - किम्भूताय ? 'मोहतरणाय' मोहस्य-अष्टाविंशतिप्रकृत्यात्मकस्य सकलकर्ममूलभूतस्य तरणं यस्य यस्माद्वा स तथा तस्मै । किं कुर्वते ? आ-समन्ताद् रक्षते, किम् ? 'विश्वं' जगद् ॥ १॥ महाय तरसा हिताऽजगतिबोधिदानामहो !,
दया भवतुदां तताऽसकलहाऽसमानाऽऽभया । महायतरसाहिता जगति वोऽधिदाना महो
दया भवतु दान्ततासकलहासमानाऽभया ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115