Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
१८ यशोविजयोपाध्यायविरचिता. [चन्द्रप्रभ... पुनः किं०१-असमदै-असाहङ्कारैः महिता-पूजिता राहदा (१) मदराहित्यविधुरा महिता-उत्सविता यस्याः । सतिः वा भगवतः पूजासत्कारप्राचुर्योऽपि तं उपबृंहणेऽमनेन (?) मदलेशस्याप्यभावात्, तथाऽऽचारे-णो पूजासक्कारे उववूहित्ता भवइ” इति । पुनः, किं० १ अधि-अधिकं सकलभुवनवर्तिदानशोभातिशायि दानं-सांवत्सरिकादि अभयादि वा यस्याः सा । पुनः किं० १ 'आमहीना' रोगरहिता । बोधिदानां किम्भूतानाम् ? 'मोहापोहात्' मोहनीयकर्मक्षयात् उदितं-उत्पन्नं परमं-प्रकृष्टं ज्योति:-ज्ञानं केवलाख्यं येषां तेषाम् ॥ २ ॥ रङ्गभङ्गः स्फुटनयमयस्तीर्थनाथेन चूला
मालापीनः शमदमवताऽसङ्गतोपायहृद्यः। सिद्धान्तोऽयं भवतु गदितः श्रेयसे भक्तिभाजा
माऽऽलापी नः शमदमवता सङ्गतोऽपायहुद्यः॥३॥ रङ्गभङ्ग इति ॥ 'तीर्थनाथेन' अर्हता 'गदितः' उक्त: 'अयं' सिद्धान्तः "भक्तिभाजां' सेवापराणां 'नः' अस्माकं 'श्रेयसे' कल्याणाय भवतु । किम्भूतः ? रगन्त:-परस्परानुप्रवेशेन उल्लसन्तो भना-वचनविकल्पा यत्र सः । पुनः किं ? स्फुटा:-प्रकटा ये नया:-नैगमादयः तन्मयः-प्रचुरतद्वान् । पुनः किं० ? चूलामालया-चूलिकाश्रेण्या पीन:-पुष्टः । पुनः किं ? असजताया:निस्सङ्गताया य उपाय:-रत्नत्रयसाम्राज्यं तेन हृद्या-मनोहरः। पुन: किं. १ आलापी' आलापकवान., "भक्तिभाजाम्" इतिःसानुखार रपाठे वा.मां लक्ष्मी लापयाति-अकास्यतीशील इति व्याख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115