Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
यशोविजयोपाध्यायविरचिता [सुविधिजिनइति सहेतुकं विशेषणम् । पुनः किं ? शुचिमतीनां-निर्मलबुद्धीनां मता-आराध्यत्वेन अभीष्टा ॥ ४ ॥
॥ इति श्रीचन्द्रप्रभस्तुतिविवरणम् ॥ ८॥ यस्याऽतनोद देवततिर्महं सु
प्रभाऽवतारे शुचिमन्दरागे। इहाऽस्तु भक्तिः सुविधौ दृढा मे,
प्रभावतारेऽशुचि मन्दरागे ॥१॥ यस्याऽतनोदिति ॥ 'इह' अस्मिन् 'सुविधौ' सुविधिनाथे 'मे' मम 'दृढा' निबिडा भक्तिरस्तु । किम्भूते ? प्रभावेन-अनुभावेन तारे, प्रभावस्य भावः प्रभावता तां रातीति प्रभावतारः चित्ता. ध्यवसायो येषां ते, प्रभावात् तारयति-संसारसागरपारं प्रापयति यः तस्मिन्निति वा। पुनः किं ? 'अशुचि' शोकरहिते। पुनः किं ? 'मन्दरागे'.........स्वभाव यत् एव दुरुदकविषयानुबन्धः संबन्धः विधुरे (1)। इह क ? यस्य 'अवतारे' प्रयति (प्रभवति) 'देवततिः' सुरश्रेणिः शुचिः-निर्मलो यो मन्दरः-मेरुः स एव अगः-पर्वतः तत्र 'मह' उत्सवम् 'अतनोत्' अकरोत् । किम्भूता देवततिः ? सु-शोभना प्रभा-कान्तिर्यस्याः सा ॥ १ ॥
अभूत् प्रकृष्टोपशमेषु येषु,
न मोहसेना जनितापदेभ्यः। युष्मभ्यमाऽऽप्ताः ! प्रथितोदयेभ्यो,
नमोऽहसेनाः ! जनितापदेभ्यः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115