Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 46
________________ स्तुतिः । ] ऐन्द्रस्तु तिचतुर्विंशतिका । .८८ अभूदिति ॥ भोः 'अहसेनाः !' नास्ति हसः - हास्यमेषामिति अहसा:- केवलिनः, उक्तं च - " केवली णं भंते ! हसेज्ज वा उस्सुआएज वा ? गो० ! णो इणट्ठे समट्ठे" इति, तेषामिनाः - स्वामिनः, कृतकृत्यानामपि तेषां व्यवहारानुरोधेन प्रणमनीयत्वात्, तेषामामन्त्रणम् । भोः 'आप्ताः !' तीर्थकृतः ! एभ्यो युष्मभ्यं नमः, 'अस्तु' इति शेषः । युष्मभ्यं किम्भूतेभ्यः ? प्रथितः - प्रसिद्धः :- अतिशयो ज्ञानं वा येषां तेभ्यः । पुनः किं० ? जनितापम् - आध्यात्मिकादिभेदभिन्नं संसारतापं द्यन्ति - खण्डयन्ति तेभ्यः । एभ्यः केभ्यः ? येषु 'मोहसेना'. .कमहामोहराजचमूः उदय: ' जनितापत्' कृतविपद् नाऽभूत् । किम्भूतेषु येषु ? प्रकृष्टः - अतिशयित उपशमः - तितिक्षापयति (?) [ येषु तेषु ] ॥ २ ॥ + वाणी रहस्यं दधती प्रदत्तमहोदयावद्भिरनीतिहारि । जीयाज्जिनेन्द्रैर्गदिता त्रिलोकी महो ! दयावद्भिरनीति हारि ॥ ३ ॥ वाणीति ॥ ' जिनेन्द्रैः' तीर्थकरैः 'गदिता' उक्ता 'वाणी' प्रवचनात्मिका भाषाद्रव्यसंहतिर्जीयात् । जिनेन्द्रैः किं कुर्वद्भिः ? 'अहो' इत्याश्वर्ये 'त्रिलोकीं' त्रिजगतीम् 'अवद्भिः' रक्षद्भिः । पुनः किं० 'दयावद्भिः ' करुणाशालिभिः । वाणी किं कुर्वती ? 'रहस्य' सकलशास्त्रोपनिषद्भूतमर्थं 'दुधती' भूयो भूयः कर्तव्यत्वप्रतिपादनेन पुष्णती । रहस्यं किम्भूतम् ? अनीतिम्-अन्यायं हरतीत्येवंशीलम् । Jain Education International ३१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115