Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 44
________________ सुतिः।] नास्तुतिचंतुविशतिका । यम् । पुनः किं० १ सङ्गतः प्रसङ्गादिसङ्गतिमान् । अयं का? यः 'अपायहृत् ' विघ्नहर्ता, अस्तीति शेषः। तीर्थनाथेन किम्भूतेन ? शमः शान्तिः दमश्च-पञ्चेन्द्रियजयः तौ विद्यते यस्याऽसौ तद्वान् तेन । किं कुर्वता ? 'अवता' रक्षता, कम् ? 'शमदं क्षान्तिदायिनं पुमांसम् ॥ ३ ॥ सा त्वं वज्राङ्कशि ! जय मुनौ भूरिभक्तिः सुसिद्ध प्राणायामेऽशुचि मतिमऽतापाऽऽपदन्ताऽबलानाम् । दत्से वज्राङ्कुशभृदऽनिशं दर्पहत्री प्रदत्तप्राणाया मे शुचिमतिमता पापदन्तावलानाम् ॥४॥ इति श्रीचन्द्रप्रभजिनस्तुतिः॥ ८॥ सात्वमिति ॥ हे वज्राङ्कशि ! सा त्वं जय । किम्भूता त्वम् ? 'भूरिभक्तिः' विपुलभक्तिमती । क ? 'मुनौ' साधौ, कीदृशे ? सुष्ठ-अतिशयेन सिद्धः-जातपरिकर्मा प्राणायामः-विधिवच्छासप्र.. श्वासरोधव्यापारो यस्य तस्मिन् , पुनः किं० ? 'अशुचि' नास्ति शुक्शोको यस्य तस्मिन् । सा का ? या त्वं 'मे' मम (मा) 'मति' बुद्धि दत्से । त्वं किं. १ 'अतापा' तापरहिता । पुनः किम्भूता ? आ*पदन्ता' आपदाम् अन्तः-नाशो यस्याः सकाशात् । * पुनः किं० ? 'प्रदत्तप्राणा' प्रदत्तबला, केषाम् ? 'अबलानां बलर. हितानां पुंसाम् । पुनः किं० ? 'अनिशं-निरन्तरं 'वज्राङ्कुशभृत्' कुलिशाङ्कुशधारिणी । पुनः किं० ? 'दर्पहनी' गर्वनाशिनी, केषाम् ? पापा एव ये दन्तावला:-हस्तिनस्तेषाम् , अत एव "वाङ्कुशभृत्" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115