Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 49
________________ यशोविजयोपाध्यायविरचिता [ शीतलजिम " अज्ञानसङ्ग्रामौ यया तस्या आमचणम् त्वं 'शासनभक्तिमतां ' जिनप्रवचनरसिकहृदयानां महात्मनां शिवनाम' मोक्षाह्वयं पदं " वितर' प्रयच्छ । पदं किं० ? ' सुरसं' सु-शोभनो रसः - शान्ताख्यो यत्र तत्, यद्यपि विभाग्याचेभिव्यजयचिद्विवर्त्तरूपो रसो मोक्षेऽनुपपन्नः तथापि वास्तवानन्दरूपस्य तस्य तत्र नानुपपत्तिरिति ध्येयम् । किं कुर्वत् ? 'सुरसम्पदं' देवविभूतिम् 'अधरयत्' तिरस्कुर्वत्, मोक्षसुखस्य त्रैकालिकसकलसांसारिक सुखेभ्योऽप्यनन्तगुणत्वात् सुखमिश्रितत्वेन प्रतिबन्धिसम्बन्धविधुरत्वात् औत्सुक्यविनिवृत्त्या स्वभावापरावृत्तेश्चेति विभावनीयम् ॥ २ ॥ भगवतोऽभ्युदितं विनमाssगमं, जन ! यतः परमापदमाऽऽदरात् । इह निहत्य शिवं जगदुन्नतिं, २४ जनयतः परमाऽऽप दमादरात् ॥ ३ ॥ भगवत इति ॥ हे जन ! त्वं तच्छब्दाध्याहारात् ततः 'भगवतः' तीर्थङ्करात् 'अभ्युदितं साक्षादर्थतया परम्परया सूत्रतया भावात् स्वभावं * ' आगमं' * सिद्धान्तं 'विनम' विशेषेण नमस्कुरु । [ कथम् ? 'आ] दरात्' श्रद्धापूर्वादभियोगात् । ततः कुतः ? 'यतः ' यस्मात् 'जगत् ' "तात्स्थ्यात्तद्व्यपदेशः” इति न्यायात् जगद्वर्त्ती लोकः* 'इह' अत्रैव लोके* 'परमापदं' कर्मोदयजनितामुत्कृष्टव्यावाघां निहत्य 'परम्' उत्कृष्टं 'शिवं' 'आप' प्राप, परमा आपद् यस्मात् १ " यद्यपि भोग्याभिव्यन्मय -" इति पाठः स्यात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115