Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 51
________________ यशोविजयोपाध्यायविरचिता [श्रेयांसजिन.. जिनवरेति ॥हे 'व्रताम्बुहृतोदयद्भवदव !' ब्रतमेव-अहिंसादि अम्बु-जलं तेन हृतः-विध्यापित उदयन्-प्रवर्द्धमानो भवदवःसंसारवह्निर्येन तस्यामत्रणम् , हे 'तापातङ्कमुक्त!' तापः-अनुशय आतङ्कश्च-भयं ताभ्यां मुक्तः-त्यक्तो यस्तस्यामश्रणम् , हे 'महागम !' महानाम्-उत्सवानाम् आगमः-पुण्यप्रारभाराकृष्टतया खत उपनमना यस्य तस्यामश्रणम् , हे 'उक्तमहागम!' उक्तः-प्रतिपादितो महान्-सकलतत्रातिशायी आगम:-सिद्धान्तो येन तस्यामअणम् , हे 'जिनवर !' केवलिश्रेष्ठ ! हे श्रेयांस ! अहम् 'उल्लसद्धववनतः' करुणातिशयभ्राजमानत्वाणतः गता भववनभ्रान्तिश्रान्तिः-संसारकान्तारभ्रमणश्रमो यस्यैतादृशः सन् 'अपातम्'अप्रतिपाति 'क' सुखं 'भजन्' आश्रयन् 'हन्त' इति कोमलामत्रणे ‘फले. ग्रहिः' फलवान् स्याम् । किम्भूतोऽहम् ? 'नतः' कृतप्रणामः ॥१॥ जिनसमुदयं विश्वाधारं हरन्तमिहाङ्गिनां, भवमऽदरदं रुच्या कान्तं महामितमोहरम् । ' विनयमधिकं कारं कारं कुलादिविशिष्टता... भवमदरदं रुच्याऽकान्तं महामि तमोहरम् ॥२॥ जिनसमुदयमिति ॥ अहम् 'अधिकम्' अतिशयितम् अधिक कं-सुखं यस्मादिति वा 'विनयं' कायेन मनसा चावनतिलक्षणं 'कारं कारं कृत्वा कृत्वा 'जिनसमुदयं' तीर्थकरसमूह 'रुच्या' श्रद्धया 'महामि' भावस्तवेन पूजयामि । किम्भूतम् ? विश्वस्य-जगत आधारं-दुर्गतिपतनप्रतिपन्थिधर्मोपदेशकत्वात् त्राणभूतम् । किं कुर्वन्तम् ? 'इह' जगति 'अङ्गिनां' प्राणिनां 'भवं' संसार, हरन्तम्' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115