Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 53
________________ ૮ यशोविजयोपाध्यायविरचिता [ श्रेयांस जिन * पुनः किं कुर्बन् ? 'अभितः' समन्ताद् 'अयश: ' अकीर्ति 'हरन् ' अपनयन् । पुनः किं० १ कुमतमेव बौद्धादिदर्शनम् अपहन्तीति कुमतापहः । पुनः किं० ? 'छायामयः'. । पुनः किं० १ गलन - शिथिलीभवन् नवरतस्य - अभिनवनिधुवनस्य मल:मलमिव भावमालिन्यहेतुत्वान्मलो यस्मात् सः, अस्ति हि समयाभ्यासस्य पुंवेदोदय निरोधहेतुत्वेन तथात्वम् । पुनः किं० ? नयैःनैगमादिभिः 'शोभितः ' भ्राजितः || ३ || सुकृतपटुतां विघ्नोच्छित्त्या तवारिहतिक्षमाsuविफल करा त्यागेहाऽऽघनाघनराजिता । वितरतु महाकाली घण्टाक्षसन्ततिविस्फुरत्यागेहा घनाघनराजिता ॥ ४ ॥ ॥ इति श्री श्रेयांसजिनस्तुतिः ॥ ११ ॥ पविफलक सुकृतेति ॥ हे 'अगेह !' गेहरहित ! महाकाली 'विघ्नोच्छित्या पापापनयनेन तव 'सुकृतपटुतां' पुण्यप्रभुत्वं 'वितरतु' ददातु । किम्भूता ? अरीणां - वैरिणां हतिः - नाशः तत्र क्षमा-समर्था, एतेन परार्थसम्पत्तिवाहिका स्वार्थसम्पदुक्ता । पुनः किं० ? अप'गतं विफलं - मोघं कर्म यस्याः सा ईदृशी सती कं सुखं रातीति अपविफल करा, अप - गतो विफलः - मोघः करः - दण्डो यस्याः ....... ........ तव । पुनः किं० ? 'त्या' कान्त्या *आ - समन्तात् * 'घना'घनराजिता' मेघवत् शोभिता । पुनः किं० ? घण्टा च अक्षस'न्ततिश्च विस्फुरती - शोभमाने पविफले च घण्टाक्षसन्ततिविस्फुरत्पविफलानि तानि करे - हस्ते यस्याः सा । पुनः किं० ? दि " Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115