________________
यशोविजयोपाध्यायविरचिता [श्रेयांसजिन.. जिनवरेति ॥हे 'व्रताम्बुहृतोदयद्भवदव !' ब्रतमेव-अहिंसादि अम्बु-जलं तेन हृतः-विध्यापित उदयन्-प्रवर्द्धमानो भवदवःसंसारवह्निर्येन तस्यामत्रणम् , हे 'तापातङ्कमुक्त!' तापः-अनुशय आतङ्कश्च-भयं ताभ्यां मुक्तः-त्यक्तो यस्तस्यामश्रणम् , हे 'महागम !' महानाम्-उत्सवानाम् आगमः-पुण्यप्रारभाराकृष्टतया खत उपनमना यस्य तस्यामश्रणम् , हे 'उक्तमहागम!' उक्तः-प्रतिपादितो महान्-सकलतत्रातिशायी आगम:-सिद्धान्तो येन तस्यामअणम् , हे 'जिनवर !' केवलिश्रेष्ठ ! हे श्रेयांस ! अहम् 'उल्लसद्धववनतः' करुणातिशयभ्राजमानत्वाणतः गता भववनभ्रान्तिश्रान्तिः-संसारकान्तारभ्रमणश्रमो यस्यैतादृशः सन् 'अपातम्'अप्रतिपाति 'क' सुखं 'भजन्' आश्रयन् 'हन्त' इति कोमलामत्रणे ‘फले. ग्रहिः' फलवान् स्याम् । किम्भूतोऽहम् ? 'नतः' कृतप्रणामः ॥१॥ जिनसमुदयं विश्वाधारं हरन्तमिहाङ्गिनां,
भवमऽदरदं रुच्या कान्तं महामितमोहरम् । ' विनयमधिकं कारं कारं कुलादिविशिष्टता... भवमदरदं रुच्याऽकान्तं महामि तमोहरम् ॥२॥
जिनसमुदयमिति ॥ अहम् 'अधिकम्' अतिशयितम् अधिक कं-सुखं यस्मादिति वा 'विनयं' कायेन मनसा चावनतिलक्षणं 'कारं कारं कृत्वा कृत्वा 'जिनसमुदयं' तीर्थकरसमूह 'रुच्या' श्रद्धया 'महामि' भावस्तवेन पूजयामि । किम्भूतम् ? विश्वस्य-जगत आधारं-दुर्गतिपतनप्रतिपन्थिधर्मोपदेशकत्वात् त्राणभूतम् । किं कुर्वन्तम् ? 'इह' जगति 'अङ्गिनां' प्राणिनां 'भवं' संसार, हरन्तम्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org