________________
स्तुतिः।]: ऐन्द्रस्तुतिचतुर्विंशतिका । .. ३७ अपनयन्तम् । पुनः किं० ? 'अदरदम् ' अभयदम् , पुनः किं ? 'कान्तं' मनोहरम् , कया ? 'रुच्या' कान्त्या । भवं किम्भूतम् ? महैः-पाणिग्रहाद्युत्सवैः अमितः-अपरिमितो यो मोहः-मोहनीयं कर्म संसारभ्रमणहेतुभूतमज्ञानं वा तं राति–ददाति यस्तम् , महै:उत्सवैः अमिता-अपरिमिता मा-लक्ष्मीर्येभ्यस्तादृशा ये ऊहाःवितर्काः तान् ददातीति जिनसमुदयस्यैव वा विशेषणं व्याख्येयमेतत् । पुनः किं० ? कुलस्य आदी कुलादी-जातिलाभे, कुलम् आदि येषां तानि त[गुणसं] विज्ञानबहुव्रीहिणा कुलैश्वर्यबलरूपतपःश्रुतानि, ततः कुलादी च कुलादीनि चेत्येकशेषात् कुलादीनां-जात्यादीनां या विशिष्टता-उत्कर्षः तद्भवः-तदुत्पन्नो यो मदः-अहङ्कारस्तं रदतिअपनयति यस्तम् । पुनः किं ? अकस्य-दुःखस्य अन्तो यस्मात् तम् , पुनः किं० ? 'तमोहरं पापापनयनकरम् ॥ २ ॥ .. शुचिगमपदो भङ्गैः पूर्णो हरन् कुमतापहो
ऽनवरतमऽलोभावस्थामाऽऽश्रयन्नऽयशोऽभितः। जन! तव मनो यायाच्छायामयः समयो गल
नवरतमलो भावस्थामाश्रयं नयशोभितः॥३॥ शुचीति॥हे 'आश्रयन्!' भजन् !, काम्? 'अलोभावस्थां' सन्तोपदशाम् , एतेनाधिकारित्वं सूचितम् , अधृतिमतोऽनधिकारित्वात् । हे जन ! 'समयः' सिद्धान्तः तव मनोऽनवरतं 'यायात्' गच्छतु । मनः किम्भूतम् ? 'भावस्थामाश्रयं' श्रद्धाबलमन्दिरम् । समयः किम्भूतः ? शुचीनि-पवित्राणि गमपदानि-सदृशपाठपदानि यत्र सः। पुनः किं० १ 'भङ्ग' विकल्पविशेषैः 'पूर्णः' भृतः।
नवरत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org