________________
स्तुतिः।। ऐन्द्रस्तुतिचतुर्विशाविका। तादृशं परं-कामादिभावश निहत्येति का व्याख्येयम्, परा-प्रकृष्टा बा मा-लक्ष्मीः तस्याः पद[मिति वा व्याख्येयम् । 'दमा ]दरात्' दमेन-इन्द्रियजयेन अदर:-निर्भयोऽतिशब्दरसः (१) वस्मात् । किं कुर्वतः ? 'उन्नति' तीर्थप्रभावनां 'जनयतः' विदधतः॥३॥ ..
स्तवरवैत्रिदशैस्तव सन्ततं,
न परमऽच्छविमानविलासिता । न घनशस्त्रकलाऽप्यरिदारिणी, न परमच्छवि ! मानवि ! लासिता ॥४॥
॥ इति श्रीशीतलजिनस्तुतिः ॥१०॥ स्तवरवैरिति॥हे 'परमच्छवि !' परमा-उत्कृष्टा छवि:-कान्तिः यस्याः तस्या आमन्त्रणम् , हे मानवि ! 'सन्ततं' निरन्तरं 'त्रिदशैः' देवैः *तव* 'स्तवरवैः' स्तोत्रध्वनिभिः कृत्वा 'अच्छविमानविलासिता' निर्मलविमानविलासशालिता न 'परं' केवलं 'न लासिता' न स्फाति प्रापिता किन्तु 'घनशस्त्रकलाऽपि' निबिडशस्त्राभ्यासनिपुणताऽपि न न लासिता, द्वयोर्नमोः प्रकृतार्थगमकत्वात् लासितैवेत्यर्थः । किम्भूता ? 'अरिदारिणी' शत्रुविदारणनिबन्धनम् , एवं चोक्तगुणद्वयेनाऽऽराध्यत्वं व्यज्यते ॥ ४ ॥
॥ इति श्रीशीतलजिनस्तुतिविवरणम् ॥ १०॥ जिनवर ! भजन श्रेयांस ! स्यां व्रताम्बुहतोदय
द्भवदव ! नतोऽहं तापातङ्कमुक्त ! महागम!। गतभववनभ्रान्तिश्रान्तिः फलेग्रहिरुल्लस
द्भवदवनतो हन्ताऽपातं कमुक्तमहागम! ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org