SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ यशोविजयोपाध्यायविरचिता [सुविधिजिनइति सहेतुकं विशेषणम् । पुनः किं ? शुचिमतीनां-निर्मलबुद्धीनां मता-आराध्यत्वेन अभीष्टा ॥ ४ ॥ ॥ इति श्रीचन्द्रप्रभस्तुतिविवरणम् ॥ ८॥ यस्याऽतनोद देवततिर्महं सु प्रभाऽवतारे शुचिमन्दरागे। इहाऽस्तु भक्तिः सुविधौ दृढा मे, प्रभावतारेऽशुचि मन्दरागे ॥१॥ यस्याऽतनोदिति ॥ 'इह' अस्मिन् 'सुविधौ' सुविधिनाथे 'मे' मम 'दृढा' निबिडा भक्तिरस्तु । किम्भूते ? प्रभावेन-अनुभावेन तारे, प्रभावस्य भावः प्रभावता तां रातीति प्रभावतारः चित्ता. ध्यवसायो येषां ते, प्रभावात् तारयति-संसारसागरपारं प्रापयति यः तस्मिन्निति वा। पुनः किं ? 'अशुचि' शोकरहिते। पुनः किं ? 'मन्दरागे'.........स्वभाव यत् एव दुरुदकविषयानुबन्धः संबन्धः विधुरे (1)। इह क ? यस्य 'अवतारे' प्रयति (प्रभवति) 'देवततिः' सुरश्रेणिः शुचिः-निर्मलो यो मन्दरः-मेरुः स एव अगः-पर्वतः तत्र 'मह' उत्सवम् 'अतनोत्' अकरोत् । किम्भूता देवततिः ? सु-शोभना प्रभा-कान्तिर्यस्याः सा ॥ १ ॥ अभूत् प्रकृष्टोपशमेषु येषु, न मोहसेना जनितापदेभ्यः। युष्मभ्यमाऽऽप्ताः ! प्रथितोदयेभ्यो, नमोऽहसेनाः ! जनितापदेभ्यः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy