Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 38
________________ स्तुतिः। ऐन्द्रस्तुतिचतुर्विशतिका । २ अस्यास्तव वनमुशले 'जगती' पृथिवीं पातां रक्षताम् । अस्या कस्याः ? या त्वम् 'अत्र' जगति 'स्समयस्य' प्रकृष्टशान्तरसस्य 'उदारसमयस्य' स्फारसिद्धान्तस्य 'शिवसाधने मोक्षसम्पादने निरुपद्रवोपाये वा 'मुदा' हर्षेण 'साहाय्यम्' एककार्यनिर्वनप्रवणतां 'कुरुषे' तनुषे । त्वं कीदृशी ? 'अपाता' पातरहिता ।। ४ ॥ ॥ इति श्रीपद्मप्रभस्तुतिविवरणम् ॥ ६ ॥ यदिह जिन ! सुपार्श्व ! त्वं निरस्ताकृतक्ष्मा वनमद ! सुरबाधा हृद्यशोभाऽवतारम् । . तत उदितमजलं कैर्बुधैर्गीयते ना ऽवनमदसुर! बाधाहृद् ! यशो भावतारम् ॥१॥ यदिहेति ॥ हे 'निरस्ताकृतक्ष्मावनमद !' क्ष्मायाः-पृथिव्याः अवनं-रक्षणं मावनम् , अकृतम्-अविहितं मावनं येन वादृशो यो मदा-"अहमुत्तमजातिमान्" इत्याचवलेपः सोऽकृतक्ष्मावनमदः, निरस्तोऽकृतक्ष्मावनमदो येन तस्यामत्रणम् ; हे 'सुरव !' सुष्टु-- शोभनः संस्कारवत्त्वादिगुणोपेतत्वाद् रवः-ध्वनिर्यस्य तस्यामत्रणम्, ह 'अवनमदसुर !' अवनमन्तः-प्रणमन्तोऽसुराः-दनुजाः यस्य तस्यामत्रणम्, हे 'बाधाहृत् !' बाधा-शारीरमानसाधनेकभेदमिन्नं दुःखं हरतीति बाधाहृत् तस्यामश्रणम् , हे 'हृद्यशोभ!" मनोहरश्रीक !, हे सुपार्श्व जिन ! त्वं 'इह' जगति यदिति वाक्यार्थकर्म 'अवतार' जन्म 'अधाः' धृतवान् 'ततः तस्मात् 'उदितम् उत्पन्नं यशः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115