Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
२२ यशोविजयोपाध्यायविरचिता [पद्मप्रभ
लिप्सुरिति ॥ सह ततया-विस्तीर्णया मया-लक्ष्म्या वर्तते यत् तत् सततमम् , सह तया-लक्ष्म्या वर्तते यत् तत् सतम् अतिशयितं सतं सततममिति वा, ‘पदं' सुदेवत्वलक्षणं लिप्सुः' लब्धुमिच्छुः पुरुषः 'जैनीम्' आहती 'वाचं' सरस्वतीं 'सततं' निरन्तरम् 'अञ्चतु' पूजयतु; केन ? विनयेन, अविनयेन पूजनं त परमार्थतोऽपूजनमेवेति भावः । जैनी वाचं किम्भूताम् ? रोचित:-अद्धितोऽर्थः-प्रतिपाद्यविषयो यस्याः सा ताम् , कैः ? 'वाचंयमैः' श्रमणैः, किम्भूतैः ? 'यमैः' अहिंसासत्यास्तेयब्रह्माकिश्चन्यलक्षणैर्महातैः परिगतैः' आश्रितैः । पुनः किम्भूताम् ? स्याद्वादेन-यथास्थानं द्रव्यार्थिकपर्यायार्थिकनयार्पणोपनीतसप्तभङ्गामकवाक्येन मुद्रिता:-प्रतिहतोत्थानाः कुतीर्थानां-बौद्धादीनां नयानाम्-ऋजुसूत्रादीनाम् अवताराः-उपन्यासविशेषाः यया सा तथा ताम् । पुनः कीदृशीम् ? चतुराणां-सुपरिज्ञातहेयोपादेयानाम् उचितः-योग्यः अर्थः-पुमर्थो यस्यां सा तथा * ताम् * ॥ ३ ॥
साहाय्यमत्र कुरुषे शिवसाधने या
ऽपाता मुदा रसमयस्य निरन्तराये !। गान्धारि ! वज्रमुशले जगतीं तवाऽस्याः, पातामुदारसमयस्य निरन्तराये ! ॥४॥
__ इति श्रीपद्मप्रभस्तुतिः ॥ ६॥ साहाय्यमत्रेति॥हे निरन्तराये!' निर्गता अन्तराया:-प्रत्यूहा यस्याः तस्या आमन्त्रणम् , पुनः हे 'निरन्तराये !' निरन्तर:अप्राप्तविच्छेद आय:-लाभो यस्याः तस्या आमत्रणम् , हे गान्धारि!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115