Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 28
________________ स्तुतिः।] ऐन्द्रस्तुतिचतुर्विंशतिका । आगमं ददाति वरदानेन सा, 'तारा' उज्ज्वला 'आगमदा' श्रुतदायिनी इति च पदद्वयं वा व्याख्येयम्, तारायाः-सुगतदेवताया आगमं द्यति-खण्डयतीति वा, तारागे-सुरशाखिनि खक्रीडापर्वते वा मदः-स्मयो यस्याः सेति वा, तां-लक्ष्मी राति-ददातीति तारस्तादृशो य आगमः-सज्जनसमागमस्तं ददाति सेति वा। पुनः किं०? अहितेषु-वैरिषु आहितौ स्थापितौ अहितारागमदौ-अप्रियस्नेहाहङ्काराभावी यया सा ॥४॥ ॥ इति श्रीशम्भवजिनस्तुतिविवरणम् ॥ ३॥ त्वमभिनन्दन! दिव्यगिरा निरा कृतसभाजनसाध्वस ! हारिभिः । अहतधैर्य ! गुणैर्जय राजितः, कृतसभाजन ! साध्वसहारिभिः॥१॥ त्वमिति ॥ हे 'निराकृतसभाजनसाध्वस !' निराकृतं सभाजनानां-पार्षदलोकानां साध्वसम्-इहलोकादिभयं येन स तस्यामअणम् , कया ? 'दिव्यगिरा' सर्वभाषानुगामिन्या योजनगामिन्या सकलातिशयसम्पन्नया भाषया, सापेक्षत्वेऽपि गमकत्वात् समासः, हे 'अहतधैर्य !' * अहतम्-अविनष्टं धैर्य-धीरता यस्य स तस्यामत्रणम् , * कैः ? साधून-उत्तमान न सहन्तीति साध्वसहाः ते च तेऽरयः-शत्रवस्तैः; हे 'कृतं-विहितं "समाज प्रीतिदर्शनयोः" इति १ यद्यपि "वह मर्षणे" धातोरात्मनेपदत्वं प्रसिद्धम् तथापि कचिदात्मनेपदस्थानित्यत्वमपि वैयाकरणैरिष्टमित्यदोषोऽत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115