________________
स्तुतिः।] ऐन्द्रस्तुतिचतुर्विंशतिका । आगमं ददाति वरदानेन सा, 'तारा' उज्ज्वला 'आगमदा' श्रुतदायिनी इति च पदद्वयं वा व्याख्येयम्, तारायाः-सुगतदेवताया आगमं द्यति-खण्डयतीति वा, तारागे-सुरशाखिनि खक्रीडापर्वते वा मदः-स्मयो यस्याः सेति वा, तां-लक्ष्मी राति-ददातीति तारस्तादृशो य आगमः-सज्जनसमागमस्तं ददाति सेति वा। पुनः किं०? अहितेषु-वैरिषु आहितौ स्थापितौ अहितारागमदौ-अप्रियस्नेहाहङ्काराभावी यया सा ॥४॥
॥ इति श्रीशम्भवजिनस्तुतिविवरणम् ॥ ३॥ त्वमभिनन्दन! दिव्यगिरा निरा
कृतसभाजनसाध्वस ! हारिभिः । अहतधैर्य ! गुणैर्जय राजितः,
कृतसभाजन ! साध्वसहारिभिः॥१॥ त्वमिति ॥ हे 'निराकृतसभाजनसाध्वस !' निराकृतं सभाजनानां-पार्षदलोकानां साध्वसम्-इहलोकादिभयं येन स तस्यामअणम् , कया ? 'दिव्यगिरा' सर्वभाषानुगामिन्या योजनगामिन्या सकलातिशयसम्पन्नया भाषया, सापेक्षत्वेऽपि गमकत्वात् समासः, हे 'अहतधैर्य !' * अहतम्-अविनष्टं धैर्य-धीरता यस्य स तस्यामत्रणम् , * कैः ? साधून-उत्तमान न सहन्तीति साध्वसहाः ते च तेऽरयः-शत्रवस्तैः; हे 'कृतं-विहितं "समाज प्रीतिदर्शनयोः" इति
१ यद्यपि "वह मर्षणे" धातोरात्मनेपदत्वं प्रसिद्धम् तथापि कचिदात्मनेपदस्थानित्यत्वमपि वैयाकरणैरिष्टमित्यदोषोऽत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org