Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 14
________________ कर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थातीर्थानन्तपरम्परादिसिद्धप्रतिपादकं, तान्वन्दित्वेति सम्बन्धः सर्वत्र योज्य:, रागद्वेषजितो जिना:-तीर्थकृ तस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, 'वन्दित्वे'ति क्त्वाप्रत्ययस्योत्तरक्रिया-सव्यपेक्षत्वादुत्तरक्रियामाह'आचारस्य' यथार्थनाम्नः ‘भगवत' इति धर्मार्थप्रयत्नगुणभाजस्तस्येवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिनियुक्तिस्तां 'कीर्तयिष्ये' (चान्द्रमतेन णिज उभयपदभावात्) अभिधास्ये इति अन्तस्तत्त्वेन निष्पन्नां नियुक्तिं बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः ॥१॥ यथाप्रतिज्ञातमेव बिभणिषुर्निक्षेपार्हाणि पदानि तावत् सुहृद्भूत्वाऽऽचार्य: संपिण्ड्य कथयति आयार अंग सुयखंध बंभ चरणे य तहेव सत्थे य । परिण्णाए संणाए निक्खेवो तह दिसाणं च ॥२॥ आचारअङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्त्तव्य इति । तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दा नामनिष्पन्ने द्रष्टव्याः, अङ्गश्रुतस्कन्धशब्दा ओघनिष्पन्ने, संज्ञादिक्शब्दौ सुत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति ।।२।। एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आहचरणदिशावज्जाणं निक्खेवो चउविहो (क्कओ) य नायव्वो । चरणंमि छव्विहो खलु सत्तविहो होइ उ दिसाणं ॥३॥ चरणदिग्वर्जानां चतुर्विधो निक्षेपः, चरणस्य षड्विधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथासम्भव-मायोज्यम् ।।३।। नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाह जत्थ य जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं । श्री आचारांग सूत्रम् (०१३)

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 146