Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
तस्मिन् सक्ता:-तत्परा: प्रकर्षेण कुर्वन्ति, सज्यन्ते येन संसारे जीवा: स सङ्गः-अष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसारः, पुनः २ तत्रैवोत्पत्तिः, आजवंजवीभावरूपः, एवंप्रकारमपायमवाप्नोति षड्जीवनिकायघात-कारीति ।। अथ यो निवृत्तस्तदारम्भात्स किंविशिष्टो भवतीत्यत आह
से वसुमं सव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं णो अण्णेसिं, तं परिण्णाय मेहावी व सयं छज्जीवनिकायसत्थं समारंभेजा, णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेजा, णेवऽण्णे छज्जीवनिकायसत्थं समारंभंते समणुजाणेज्जा, जस्सेते छज्जी-वनिकायसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे-त्तिबेमि ॥ सू०६१ ॥
'से' इति पृथिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाक् षड्जीवनिकायहनननिवृत्तो 'वसुमान्' वसूनि द्रव्यभावभेदाद्विधाद्रव्यवसूनिमरकतेन्द्रनीलवज्रादीनि भाववसूनिसम्यक्त्वादीनि तानि यस्य यस्मिन्वा सन्ति स वसुमान् द्रव्यवानित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते, प्रज्ञायन्ते यैस्तानि प्रज्ञानानियथावस्थितविषयग्राहीणि ज्ञानानि सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मन: स सर्वसमन्वागतप्रज्ञान:सर्वावबोधविशेषानुगतः सर्वेनिन्द्रयज्ञान: पटुभिर्यथावस्थितविषयग्राहिभिरविपरीतैरनुगत इतियावत्, तेन सर्वसमन्वागतप्रज्ञानेनात्मना, अथवा सर्वेषु द्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं यस्यात्मनः स सर्वसमन्वागतप्रज्ञान आत्मा, भगवद्वचनप्रामाण्यदेवमेतत् द्रव्यपर्यायजातं नान्यथेति सामान्यविशेषपरिच्छेदान्निश्चिताशेषज्ञेयप्रपञ्चस्वरूप: सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफलसकलकलाप-परिज्ञानान्नरकतिर्यक्नरामरमोक्षसुखस्वरूपपरिज्ञानाच्चापरितुष्यन्ननै-कान्तिकादिगुणयुक्ते संसारसुखे मोक्षानुष्ठानमाविष्कुर्वन् सर्वसमन्वा-गतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना 'अकरणीयम्' अकर्तव्य-मिहपरलोकविरुद्धत्वाद
श्री आचारांग सूत्रम् --- -----
(१3८)

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146