Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 139
________________ एत्थंपि जाणे उवादीयमाणा, जे आयारे ण रमंति, आरंभमाणा विणयं वयंति, छदोवणीया अज्झोववण्णा, आरंभसत्ता पकरंति संगं ।।सू० ६० ॥ एतस्मिन्नपि-प्रस्तुते वायुकाये, अपिशब्दात् पृथिव्यादिषु च समाश्रितमारम्भं ये कुर्वन्ति ते उपादीयन्ते-कर्मणा बध्यन्त इत्यर्थः, एकस्मिन् जीवनिकाये वधप्रवृत्तः शेषनिकायवधजनितेन कर्मणा बध्यते, किमिति ?-यतो न ह्येकजीवनिकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यत इत्यतस्त्वमेवं जानीहि, श्रोतुरनेन परामर्शः, अत्र च द्वितीयार्थे प्रथमा, ततश्चैवमन्वयो लगयितव्य:-पृथिव्याद्यारम्भिण: शेषकायारम्भकर्मणा उपादीयमानान् जानीहि, के पुनः पृथिव्याद्यारम्भिण: शेषकायारम्भकर्मणोपादीयन्ते ? इति, आह-'जे आयारे ण रमंति' ये ह्यविदितपरमार्था ज्ञानदर्शनचरणतपोवीर्याख्य पञ्चप्रकाराचारे 'न रमन्ते'न धृतिं कुर्वन्ति, तदधृत्या च पृथिव्याद्यारम्भिणः, तान् कर्मभिरुपादीयमानान् जानीहि, के पुनराचारे न रमन्ते ?, शाक्यादिगम्बरपार्श्वस्थादयः । किमिति ?, यत आह- ‘आरंभमाणा विणयं वयंति' आरम्भमाणा अपि पृथिव्यादीन् जीवान् विनयं संयममेव भाषन्ते, कर्माष्टकविनयनाद्विनय:-संयमः, शाक्यादयो हि वयमपि विनयव्यवस्थिता इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमे वा तदाश्रितारम्भित्वात् ज्ञानाद्याचारविकलत्वेन नष्टशीला इति । किं पुनः कारणं ?, येनैवं ते दुष्टशीला अपि विनयव्यवस्थितमात्मानं भाषन्ते इत्यत आह-'छन्दोवणीया अज्झोववण्णा' छन्दः-स्वाभिप्राय: इच्छामात्रमनालोचितपूर्वापरं विषयाभिलाषो वा, तेन छन्दसा उपनीता: (छन्देनोपनीता:)-प्रापिता आरम्भमार्गमविनीता अपि विनयं भाषन्ते, अधिक मत्यर्थमुपपन्ना तच्चित्तास्तदात्मका: अध्युपपन्ना:विषयपरिभोगायत्तजीविता इत्यर्थः, य एवं विषयाशाकर्षितचेतसस्ते किं कुर्युरित्याह-‘आरंभसत्ता पकरंति संग' आरम्भणमारम्भ:-सावद्यानुष्ठानं श्री आचारांग सूत्रम् (१३८)

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146