Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
कार्यमिति मत्वा नान्वेषयेत्-न तदुपादानाय यत्नं कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति ?, उच्यते, ‘पापं कर्म' अध:पतनकारित्वात्पापं क्रियत इति कर्म, तच्चाष्टादशविधं प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रह क्रोधमानमायालोभ प्रेमद्वेषकल-हाभ्याख्यानपैशून्यपरपरिवादरत्यरतिमायामृषा मिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत्-न कुर्यात् स्वयं न चान्यं कारयेत् न कुर्वाणमन्यमनुमोदेत । एतदेवाह-'तं परिण्णाय मेहावी'त्यादि ‘तत्' पापमष्टादशप्रकारं परि:-समन्तात् ज्ञात्वा मेधावी-मर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं स्वकायपरकायादिभेदं समारभेत् नैवान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात्, एवं यस्यैते सुपरीक्ष्यकारिण: षड्जीवनिकायशस्त्रसमारम्भाः तद्विषयाः पापकर्मविशेषा: परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्याख्यातपापकर्मत्वात्प्रत्याख्याताशेषपापागमत्वात्, तदन्यैवं-विधपुरुषवदिति । इतिशब्दोऽ ध्ययनपरिसमाप्तिप्रदर्शनाय, ब्रवीमीति सुधर्मस्वाम्याह स्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्य समा-सादिताशेषपदा
र्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातं यदतिक्रान्तं मयेति । उक्त: सूत्रानुगम: निक्षेपश्च ससूत्रस्पर्शनियुक्तिः । सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिता:, सङ्केपतस्तु सर्वेऽपि एते द्वेधा भवन्ति, ज्ञाननयाश्चरणनयाश्च, तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वकसकलदुःखप्रहाणाच्च ज्ञानमेव न तु क्रिया, चरणनयास्तु चरणस्य प्राधान्यमभिदधति, अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानां, तथाहि-सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुल्लसिते न चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाश्च मोक्षालाभः, तस्मान्न ज्ञानं प्रधानं, चरणे पुनः सति सर्वमूलात्तर
श्री आचारांग सूत्रम्
(१४०)

Page Navigation
1 ... 139 140 141 142 143 144 145 146