Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
गुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात् केवलावबोधप्राप्तिः, ततश्च यथाख्यातचारित्रवह्निज्वालाकलापप्रतापितसकलकर्म्मकन्दोच्छेदः,
तदुच्छेदादव्याबाधसुखलक्षणमोक्षावाप्तिरिति, तस्माच्चरणं प्रधानमित्यध्यवस्यामः । अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनं, यत उक्तम्- 'हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दड्ढो, धावमाणो य अंधओ ॥ १ ॥ ' ( हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया । पश्यन् पङ्गुर्दग्धो धावंश्चान्धः । । १ । । ) तदेवं सर्वेऽति नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यग्भावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्- ' एवं सव्वेवि णया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोण्णणिस्सिया पुर हवंति ते चेव सम्मत्तं ।। १ ।। ' ( एवं सर्वेऽपि नया: मिथ्यादृष्टयः स्वपक्षपतिबद्धाः । अन्योऽन्यनिश्रिताः पुनर्भवन्ति त एव सम्यक्त्वम् ।।१।। ) तस्मादुभयं परस्पर-सापेक्षं मोक्षप्राप्तये अलं, न प्रत्येकं ज्ञानं चरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितं ।। तया चोभयप्राधान्यदिदर्शयिषयाहसव्वेसिंपि णयाणं बहुविधवत्तव्वय णिसामेत्ता । तं सव्वणयविसुद्ध जं चरण साहू ।। चरणं च गुणश्च चरणगुणौ तयोः स्थितश्चरणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव परि-गृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानाख्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङ्क्षेपात् ज्ञानचरणयोरेव स्थातव्यमिति निश्चयो विदुषां न चाभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनतत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, न च ज्ञानमात्रेणाभीष्टप्राप्तिः, क्रियाहीनत्वात्, चक्षुर्ज्ञानसमन्वितपगुपुरुषअर्धदग्धनगरमध्या-वस्थितयथावस्थितदर्शिज्ञानवत्, तस्मादुभयं प्रधानं, नगरदाहनिर्गमे पवन्धसंयोग-क्रियाज्ञानवत् ।। एवमिदमाचाराङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकायस्वरूपरक्षणोपा
श्री आचारांग सूत्रम्
(१४१)
-
-

Page Navigation
1 ... 140 141 142 143 144 145 146