Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 130
________________ शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मथ्नन्ति, पित्ता) मयूरादयः, वसार्थं व्याघ्रमकरवराहादयः, पिच्छार्थं मयूरगृध्रादयः, पुच्छार्थं रोझादयः, वालार्थं चमर्यादयः, श्रृङ्गार्थं रुरुखड्गादयः, तत्किल श्रृङ्गं पवित्रमिति याज्ञिका गृह्णन्ति, विषाणार्थं हस्त्यादयः, दन्तार्थं श्रृगालादयः, तिमिरापहृत्वात्तद्दन्तानां, दंष्ट्रार्थं वराहादयः, नखार्थं व्याघ्रादयः, स्नाय्वर्थं गोमहिष्यादयः, अस्थ्यर्थं शङ्खशुक्त्यादयः, अस्थिमिञार्थं महिषवराहादयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षयाघ्नन्ति, अपरे तु कृकलासगृहकोकिलिकादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुन: 'हिंसिसु मेत्ति' हिंसितवानेषीऽस्मत्स्वजनान्सिंहः सोऽरिर्वाऽतो घ्नन्ति, मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति घ्नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सर्पादिकं व्यापादयन्ति । एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थमुपसञ्जिहीर्षुराह एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेति आरंभा परिण्णाया भवन्ति, तं परिण्णाय मेहावी व सयं तसकासत्थं समारंभेजा णेवऽण्णेहिं तसकायसत्थं समारंभावेज्जा णेवऽण्णे तसकायसत्थं समारंभंते समणुजाणेज्जा, जस्सेते तसकायसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे तिबेमि ।। सू० ५४ ।। प्राग्वद्वाच्यं (प्राग्वद्भावनीयं) यावत्स एवं मुनिस्त्रसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वात्प्रत्याख्यातपापकर्मत्वादिति ब्रवीमि भगवत: त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्यो-पदेशादिति षष्ठोद्देशक: समाप्तः ॥ ॥ इति प्रथमाध्ययने षष्ठ उद्देशकः ॥१-६॥ ॥ अथ प्रथमाध्ययने सप्तमोद्देशकः ॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमः समारभ्यते, अस्य चायमभि - श्री आचारांग सूत्रम् (१२९)

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146