Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
वियणघमणाभिधारण उस्सिंचणफुसणआणुपाणू अ । - बायरवाउक्काए उवभोगगुणो मणुस्साणं ॥१६९ ।।
व्यजनभस्त्राध्माताभिधारणोत्सिञ्चनफूत्कार-प्राणापानादिभिर्बादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्याणामिति ॥ शस्त्रद्वाराभिधित्सयाऽऽह, तत्र शस्त्रं द्रव्यभावभेदादिद्विविधं, द्रव्यशस्त्राभिधित्सयाऽऽह
विअणे अ तालविंटे सुप्पसियपत्त चेलकण्णे य ।
अभिधारणा य बाहिं गंधग्गी वाउसत्थाई ॥१७० ।। ___व्यजनं तालवृन्ते सूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं, प्रस्विन्नो यद्बहिरवतिष्ठते वातागमनमार्गे साऽभिधारणा, तथा गन्धा:-चन्दनोशीरादीनां अग्निाला प्रतापश्च, तथा प्रतिपक्षवातश्च शीतोष्णादिकः, प्रतिपक्षवायुग्रहणेन स्वकायादिशस्त्रं सूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाक्कायलक्षणमवगन्तव्यमिति ।। अधुना सकलनियुक्त्यर्थोपसञ्जिहीर्षुराह
सेसाई दाराई ताई जाइं हवंति पुढवीए । एवं वाउद्देसे निजुत्ती कित्तिया एसा ॥१७१॥
'शेषाणि' उक्तव्यतिरिक्तानि तान्येव द्वाराणि पृथिवीसमधिगमे यान्य-भिहितानीति, एवं सकलद्वारकलापव्यावर्णनाद् वायुकायोद्देशके नियुक्तिः कीर्त्तितैषाऽवगन्तव्येति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्-‘पहू एजस्स दुगंछणाए'त्ति, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकाय-परिज्ञानं तदारम्भपरिवर्जनं च मुनित्वकारणमभिहितम्, इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते, तथा परम्परसूत्रसम्बन्धः, इहमेगेसिं णो णायं भवई'त्ति, किं तत् ज्ञातं भवति ?, ‘पहु एजस्स, दुगुंछणाए'त्ति तथा आदिसूत्रसम्बन्धश्च 'सुयं मे आउसंतेण'
श्री आचारांग सूत्रम्
(१२)

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146