SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ वियणघमणाभिधारण उस्सिंचणफुसणआणुपाणू अ । - बायरवाउक्काए उवभोगगुणो मणुस्साणं ॥१६९ ।। व्यजनभस्त्राध्माताभिधारणोत्सिञ्चनफूत्कार-प्राणापानादिभिर्बादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्याणामिति ॥ शस्त्रद्वाराभिधित्सयाऽऽह, तत्र शस्त्रं द्रव्यभावभेदादिद्विविधं, द्रव्यशस्त्राभिधित्सयाऽऽह विअणे अ तालविंटे सुप्पसियपत्त चेलकण्णे य । अभिधारणा य बाहिं गंधग्गी वाउसत्थाई ॥१७० ।। ___व्यजनं तालवृन्ते सूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं, प्रस्विन्नो यद्बहिरवतिष्ठते वातागमनमार्गे साऽभिधारणा, तथा गन्धा:-चन्दनोशीरादीनां अग्निाला प्रतापश्च, तथा प्रतिपक्षवातश्च शीतोष्णादिकः, प्रतिपक्षवायुग्रहणेन स्वकायादिशस्त्रं सूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाक्कायलक्षणमवगन्तव्यमिति ।। अधुना सकलनियुक्त्यर्थोपसञ्जिहीर्षुराह सेसाई दाराई ताई जाइं हवंति पुढवीए । एवं वाउद्देसे निजुत्ती कित्तिया एसा ॥१७१॥ 'शेषाणि' उक्तव्यतिरिक्तानि तान्येव द्वाराणि पृथिवीसमधिगमे यान्य-भिहितानीति, एवं सकलद्वारकलापव्यावर्णनाद् वायुकायोद्देशके नियुक्तिः कीर्त्तितैषाऽवगन्तव्येति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्-‘पहू एजस्स दुगंछणाए'त्ति, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकाय-परिज्ञानं तदारम्भपरिवर्जनं च मुनित्वकारणमभिहितम्, इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते, तथा परम्परसूत्रसम्बन्धः, इहमेगेसिं णो णायं भवई'त्ति, किं तत् ज्ञातं भवति ?, ‘पहु एजस्स, दुगुंछणाए'त्ति तथा आदिसूत्रसम्बन्धश्च 'सुयं मे आउसंतेण' श्री आचारांग सूत्रम् (१२)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy