Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
सम्बन्धः -अभिनवधर्माणां दु:श्रद्धानत्वादल्पपरिभोगत्वादुत्क्रमायातस्योक्तशेषस्य वायो: स्वरूपनिरूपणार्थमिदमुपक्रम्यते-तदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वायूद्देशक इति, तत्र वायो: स्वरूपनिरूपणाय कतिचिद्वारातिदेशगर्दा नियुक्तिकृद्-गाथामाह
__वाउस्सऽवि दाराई ताई जाइं हवंति पुढवीए ।
नाणत्ती उ विहाणे परिमाणुवभोगसत्थेय ॥१६४ ॥ वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादितानि, नानात्वं-भेदः, तच्च विधानपरिमाणोपभोगशस्त्रेषु, चशब्दाल्लक्षणे च द्रष्टव्यमिति ।। तत्र विधानप्रतिपादनायाह
दुविहा य वाउज्जीवा सुहमा तह बायरा उ लोगंमि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥१६५ ॥
वायुरेव जीवा वायुजीवा: ते च द्विविधा:-सूक्ष्मबादरनामकर्मोदयात् सूक्ष्मा बादराश्च, तत्र सूक्ष्मा: सकललोकव्यापितया अवतिष्ठन्ते, दत्तकपाटसकलवातायनद्वारगेहान्तद्भूमवत् व्याप्त्या स्थिता:, बादरभेदास्तु पञ्चैवानन्तर-गाथया वक्ष्यमाणा इति ।। बादरभेदप्रतिपादनायाह
उक्कलिया मंडलिया गुञ्जा घणवाय सुद्धवाया य । बायरवाउविहाणा पंचविहा वण्णिया एए ॥१६६ ।।
दारं-स्थित्वा स्थित्वोत्कलिकाभिर्यो वाति स उत्कलिकावात:, मण्डलिकावातस्तु वातोलीरूपः, गुञ्जा-भम्भा तद्वत् गुञ्जन् यो वाति स गुञ्जावातः, घनवातोऽत्यन्तघन: पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पो, मन्दस्तिमित: शीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोगमन्तर्भावो द्रष्टव्य इति, एवमित्येते बादरवायुविधानानि-भेदा: ‘पञ्चविधा:' पञ्चप्रकारा व्यावर्णिता इति ।। लक्षणद्वाराभिधित्सयाऽऽह
श्री आचारांग सूत्रम्
(१30)

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146