Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
मित्यादि, किं तत् श्रुतं ?, यत्प्रागुपदिष्ट, तथैतच्च
पहू एजस्स (य एगस्स) दुगुंछणाए ।सू० ५५ ।।
'दुगुंछण'त्ति जुगुप्सा प्रभवतीति प्रभुः-समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति?, ‘एजृ कम्पने एजतीत्येजो वायुः कम्पनशीलत्वात् तस्यैजस्य जुगुप्सा-निन्दा तदासेवनपरिहारो निवृत्तिरितियावत् तस्यांतद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीतियावत्, पाठान्तरं वा ‘पहू य एगस्स दुगुंछणाए' उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनोपलक्षित इत्येको-वायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः, चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः । योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयतिआयकदंसी अहियंति णच्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ, एयं तुलमन्नेसि ॥ सू० ५६॥
तकि कृच्छ्रजीवन' इत्यातङ्कनामातङ्क:-कृच्छ्रजीवनं-दु:खं, तच्च द्विविधं-शारीरं मानसं च, तत्राद्यं कण्टकक्षारशस्त्रगण्डलूतादिसमुत्थं, मानसं प्रियविप्रयोगप्रियसम्प्रयोगेप्सितालाभदारिद्रयदौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमातङ्कं पश्यति तच्छीलश्चेत्यातङ्कदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चेतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मान्निवर्त्तते प्रभुर्भवतीति
। यदिवाऽऽतङ्को द्वेधा-द्रव्यभावभेदात्, तत्र द्रव्यातङ्के इदमुदाहरणमजंबुद्दीवे द्दीवे भरहे वासंमि अत्थि सुप्रसिद्धं । बहुणयरगुणसमिद्धं रायगिहं णाम णयरंति ॥१॥ (जम्बूद्वीपे द्वीपे भरते वर्षेऽस्ति सुप्रसिद्धम् । बहुनगरगुणसमृद्ध राजगृहं नाम नगरमिति) तत्थासि गरुयदरियारिमद्दणो भुयणनिग्गयपयावो । अभिगयजीवाजीवो राया णामेण जियसत्तू ॥२॥ (तत्रासीत् गुरुदृप्तारिमर्दनो भुवननिर्गतप्रताप: । अभिगतजीवाजीवो
श्री आचारांग सूत्रम्
(१33)

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146