Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
जइ देवस्स सरीरं अंतद्धाणं व अंजणाईसुं । एओवम आएसो वाएऽसंतेऽवि रूवंमि ॥१६७।।
यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्वन्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते-नास्त्यचेतनं चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्धानमज्जनविद्यामन्त्रैर्भवति मनुष्याणां, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो(नेन) वायावपि भवति आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र वासच्छब्दो नाभाववचनं, किं त्वसद्रुपं वायोरिति चक्षुर्गाह्यं तद्रुपं न भवति, सूक्ष्मपरिणामात्, परमाणुरवि, रूपरसस्पर्शात्मकश्च वायुरिष्यते, व यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्च गाथया प्रदर्शितः, प्रयोगश्चायंचेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत्, तिर्यगेव गमननियमाभावात् अनियमितविशेषणोपादानाच्च परमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात्, जीवपुद्गलयो: 'अनुश्रेणिगति' (तत्त्वा०अ०२ सू० २७) रिति वचनात्, एवमेष वायु-घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति । परिमाणद्वारमाह
जे बायरपजत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोगा असंखिज्जा ॥१६८॥ दारं ॥
ये बादरपर्याप्तका वायवस्ते संवर्त्तितलोकप्रतरासङ्ख्येयभागवर्त्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्ख्येयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-बादराप्कायपर्याप्लकेभ्यो बादरवायुपर्याप्तका असङ्ख्येयगुणा: बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्ख्येयगुणा: सूक्ष्माप्कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिका: सूक्ष्माप्कायपर्याप्तकेभ्यः सत्यवायुपर्याप्तका विशेषाधिकारः ।। उपभोगद्वारमाह AAR
श्री आचारांग सूत्रम्
(१३१)

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146