Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
एताश्च प्रज्ञापकविधिविभक्ता दिशोऽनुदिश गृह्यन्ते, जीवव्यवस्थानश्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काक्वा न काचिद्दिगनुदिग्वा यस्यां न सन्ति त्रसाः त्रस्यन्ति वा न यस्यां स्थिताः कोशिकारकीटवत्, कोशिकारकीटो हि सर्वदिग्भ्योऽनुदिग्भ्यश्च बिभ्यदात्मसंरक्षणार्थं वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्तादृश्यस्ति यस्यां वर्त्तमानो जन्तुर्न त्रस्येत् शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जघन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः ।। एवं सर्वत्र दिक्ष्वनुदिक्षु च त्रसाः सन्तीति गृह्णीम:, दिग्विदिग्व्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तं, कुतः पुनस्त्रस्यन्ति ? - यस्मात्तदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं ?, ते तानारम्भन्त इत्यत आह
तत्थ तत्थ पुढो पास, आतुरा परितावंति, संति पाणा पुढो सिया ।। सू०५१ ॥
'तत्र तत्र' तेषु तेषु कारणेषूत्पन्नेषु वक्ष्यमाणेषु अर्चाजिनशोणितादिषु च पृथग्विभिन्नेषु प्रयोजनेषु, पश्येति शिष्यचोदना . किं तत्पश्येति दर्शयति, 'मांसभक्षणादिगृद्धा आतुरा: 'अस्वस्थमनसः परिसमन्तात्तापयन्ति - पीडयन्ति नानविधवेदनोत्पादनेन प्राणिव्यापादनेन वा तदारम्भिणसानिति, येन केनचिदारम्भेण प्राणिनां सन्तापनं भवतीति दर्शयन्नाह'संती' त्यादि, 'सन्ति' विद्यन्ते प्राय: सर्वत्रैव प्राणाः प्राणिन: 'पृथक् ' विभिन्नाः द्वित्रिचतुःपञ्चेन्द्रियाः 'श्रिता:' पृथिव्यादिश्रिताः एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः ।। अन्ये पुनरन्यथावादिनोऽ न्यथाकारिण इति दर्शयन्नाह -
लज्ज़माणा पुढो पास अणगारा मोति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेणं तसकायसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसति, तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए
श्री आचारांग सूत्रम्
-
(१२७)

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146