Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
दर्शयति-पडिलेहेत्त'त्ति प्रत्युपेक्ष्य-दृष्ट्वा यथावदुपलभ्येत्यर्थः, किं तदिति दर्शयति-'प्रत्येक'मित्येकमेकं त्रसकायं प्रति परिनिर्वाणं-सुखं प्रत्येकसुखभाज: सर्वेऽपि प्राणिन: नान्यदीयमन्य उपभुङ्क्ते सुखमित्यर्थः, एष च सर्वप्राणिधर्म इति दर्शयति- सर्वेषां प्राणिनां-द्वित्रिचतुरिन्द्रियाणां, तथा सर्वेषां भूतानां-प्रत्येक-साधारणसूक्ष्मबादरपर्याप्तकापर्याप्तकतरूणामिति, तथा सर्वेषां जीवानां इति-गर्भव्युत्क्रान्तिकसम्मूर्च्छनजौपपातिकपञ्चेन्द्रियाणां, तथा सर्वेषां सत्त्वानां इति-पृथिव्यायेकेन्द्रियाणामिति, इह च प्राणादिशब्दानां यद्यपि परमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्तं च-'प्राणाद्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवा: पञ्चेन्द्रियाः प्रोक्ता: (ज्ञेया) शेषाः सत्त्वा उदीरिताः (प्रकीर्तिताः) ॥१॥ इति, यदिवाशब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः (भ्युपगंतव्यः) तद्यथा-सततप्राणधारणात्प्राणा: कालत्रयभवनाद् भूताः त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्त्वा इति, तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येकं परिनिर्वाणं-सुखं तथा प्रत्येकमसातम्-अपरिनिर्वाणं महाभयं दुःखमयं ब्रवीमि, तत्र दुःखयतीति दुःखं, तद्विशिष्यते-किंविशिष्टम् ?-'असातम्' असद्वेद्यकर्माशविपाकजमित्यर्थः, तथा अपरिनिर्वाण'मिति समन्तात् सुखं परिनिर्वाणं न परिनिर्वाणमपरिनिर्वाणं समन्तात् शरीरमन:पीडाकरमित्यर्थः, तथा 'महाभय'मिति महच्च तद्भयं च महाभयं, नात: परमन्यद् भयमस्तीति महाभयं, तथाहि-सर्वेऽपि शारीरान्मानसाच्च दुःखादुद्विजन्ते प्राणिन इति, इति शब्दएवमर्थे, एवमहं ब्रवीमि सम्यगुपलब्धतत्त्वो यत्प्रागुक्तमिति । एतच्च ब्रवीमीत्याह-'तसंती'त्यादि, एवंविधेन च असातादिविशेषणविशिष्टेन दुःखेनाभिभूतास्त्रस्यन्ति-उद्विजन्ति प्राणा इति प्राणिनः, कुतः पुनरुद्विजन्तीति दर्शयति- प्रगता दिक् प्रदिग्विदिक् इत्यर्थः, तत: प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु च दिक्षु व्यवस्थितास्त्रस्यन्ति,
श्री आचारांग सूत्रम्
(१२६)

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146