Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 110
________________ स्तम्भद्वारशाखादि, गन्धाङ्गानि-वालकप्रियङ्गुपत्रकदमनकत्वचन्दनोशीरदेवदार्वादीनि, वस्त्राणि-वल्कलकर्पासमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालतीविचकिलादयः, ध्मापनं-दाहो भस्मसात्करणमिन्धनैः, वितापनं-शीताभ्यर्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्, तैलविधानं-तिलातसीसर्षपेङ्गदी-ज्योतिष्मतीकरजादिभिः, उद्योतो-वर्तितृणचूडाकाष्ठादिभिरिति ।। एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसञ्जिहीर्षुराह एएहिं कारणेहिं हिंसंति वणस्सई बहू जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥१४८ ।। . एतैः' गाथाद्वयोपात्तैः कारणैः' प्रयोजनैः 'हिंसन्ति' व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहन वनस्पतिसमारम्भिण: पुरुषाः, किंभातास्त इति दर्शयति-‘सातं' सुखं तदन्वेषिणः ‘परस्य' वनस्पत्यायेकेन्द्रियादेः ‘दुःखं बाधामुत्पादयन्ति ।। साम्प्रतं शस्त्रमुच्यते-तच्च द्विधाद्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽहकप्पणिकुहाणि (डि)असियगदत्तियकुद्दालवासिपरसू अ । सत्थ वणस्सईए हत्था पाया मुहं अग्गी ॥१४९ ।। कल्प्यते-छिद्यते यया सा कल्पनी-शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं -दात्रं, दात्रिका-प्रसिद्धा एव, कुद्दालकवासिपरशवश्च, एते वनस्पतेः शस्त्रं, तथा हस्तपादमुखाग्नयश्च इत्येतेत्सामान्यशस्त्रमिति ।। विभागशस्त्राभिधित्सयाऽऽह किंचि सकायसत्थं किंचि परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥१५० ।। किञ्चित् स्वकायशस्त्रं-लकुटादि किञ्चिच्च परकायशस्त्रंपाषाणाग्न्यादि तथोभयशस्त्रं-दात्रदात्रिकाकुठारादि, एतद् द्रव्यशस्त्रं भावशस्त्रं पुनरसंयमः दुष्पणिहितमनोवाक्कायलक्षण इति ।। श्री आचारांग सूत्रम् (१०६)

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146