Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 111
________________ सकलनिर्युक्त्य-र्थपरिसमाप्ति-प्रचिकटयिषयाऽऽह सेसाई दाराई ताई जाइं हवंति पुढवीए । एवं वणस्सईए निजुत्ती कित्तिया एसा ॥१५१ ।। उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्वाराभिधानाद्वनस्पतौ नियुक्ति: 'कीर्तिता' व्यावर्णितेति ।। साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्तं णो करिस्सामि समुट्ठाए, मत्ता- मइमं अभयं विदित्ता, तं जे णो करए, एसोवरए, एत्थोवरए, एस अणगारेत्ति पवुच्चई ।।सू०३९ ।। अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः उक्तं प्राक् 'सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः' इत्येवं विदितकटुकविपाक: समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिमात्यन्तिकीमात्मनि दर्शयन्नाह'तत्' वनस्पतीनां दुःख-महं दृष्टप्रत्यपायो न करिष्ये, यदिवा तदुःखोत्पत्तिनिमित्तभूतं वनस्पतावारम्भं-छेदनभेदनादिरूपं नो करिष्ये मनोवाकायैः, तथाऽपरैर्न कारयिष्ये, तथा कुर्व्वतश्चान्यानानुमस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्थाय समुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः, तदेवं वर्जितसकलसावद्यारम्भकलाप: संस्तद्वनस्पतिदुःखं तदारम्भं वा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तर्हि ? ज्ञानक्रियाभ्यां, तदुक्तम्'नाणं किरियारहियं किरियामेत्तं च दोऽवि एगन्ता । न समत्था दाउं जे जम्ममरणदुक्खदाहाई ॥१॥' (ज्ञानं क्रियारहितं क्रियामानं च द्वे अप्येकान्तान् । न समर्थे दातुं यानि जन्ममरणदुःखदाहकानि ॥१॥) यत एवमतो विशिष्टमोक्ष-कारणभूतज्ञानप्रतिपिपादयिषयाऽऽह-‘मत्ता मइमं' मत्त्वा-ज्ञात्वा अवबुध्य यथावत् जीवान्, मतिरस्यास्तीति मतिमान्, मतिमानेवोपदेशा) भवतीत्यतस्तद्वारेणैव शिष्यामन्त्रणं हे मतिमन् ! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्षमवाप्नोतीति, श्री आचारांग सूत्रम् (११०)

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146