Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
नेरइयतिरियमणुया सुरा य गइओ चउन्विहा चेव । पज्जत्ताऽपज्जत्ता नेरइयाई अ नायव्वा ॥१५४ ।।
नारका-रत्नप्रभादिमहातम:पृथ्वीपर्यन्तनरकावासिनः सप्तभेदाः, तिर्यञ्चोऽपि द्वित्रिचतुष्पञ्चेन्द्रियाः, मनुष्याः सम्मूर्छनजा: गर्भव्युत्क्रान्ताश्च, सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकाः, एते गतित्रसाश्चतुर्विधाः, नामकर्मोदयाभिनिर्वृत्तगतिलाभाद्गतित्रसत्वम्, एते च नारकादय: पर्याप्तापर्याप्तभेदेन द्विविधा ज्ञातव्याः, तत्र पर्याप्ति: पूर्वोक्तैव षोढा, तया यथासम्भवं निष्पन्ना: पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तका अन्तर्मुहर्त्तकालमिति ।। इदानीमुत्तरभेदानाह
तिविहा तिविहा जोणी अंडापोअअजराउआ चेव । बेइंदिय तेइन्दिय चउरो पंचिंदिया चेव ॥१५५ ॥ दारं ॥
अत्र हि शीतोष्णमिश्रभेदात्तथा सचित्ताचित्तमिश्रभेदात्तथा संवृतविवृततदुभयभेदात्तथा स्त्रीनपुंसकभेदाच्चेत्यादीनि बहनि योनीनां त्रिकाणि सम्भवन्ति, तेषां सर्वेषां सङ्ग्रहार्थं त्रिविधा त्रिविधेति वीप्सानिर्देश:, तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनि: चतुर्थ्यामुपरितननरकेषु शीता अधस्तननरकेषूष्णा पञ्चमीषष्ठीसप्तमीषूष्णैव नेतरे (शीता शीतोष्णेति । तत्र नारकाणामाद्यासु तिसृषु भूमिपूष्णैव योनिः चतुर्थ्यामुपरितननरकेषूष्णाऽधस्तननरकेषु शीता पञ्चमीषष्ठीसप्तमीषु शीतैव नेतरे इति पा., मतान्तराभिप्रायकश्चायं पाठः, अस्ति सङ्ग्रहणीवृत्तावेवं मतद्वयमपि।) गर्भव्युत्क्रान्तिकतिर्यङ्मनुष्याणामशेषदेवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्दियसंमूर्छनजतिर्यङ्मनुष्याणां त्रिविधाऽपि योनि: शीता उष्णा शीतोष्णा चेति, तथा नारकदेवानामचित्ता नेतरे, द्वीन्द्रियादिसम्मूर्छनजपञ्चेन्द्रियतिर्यङ्मनुष्याणां त्रिविधाऽपि योनिः सचित्ताचित्ता मिश्रा च, गर्भव्युत्क्रान्तिकतिर्यङ्मनुष्याणां मिश्रा योनिर्नेतरे, तथा देवनारकाणां संवृता योनिर्नेतरे, द्वित्रिचतुरिन्द्रियसम्मूर्छनजपञ्चेन्द्रियतिर्यङ्मनुष्याणां विवृता
श्री आचारांग सूत्रम्
(११८)

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146