Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यग्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा नारका नपुंसकयोनय एव, तिर्यञ्चस्त्रिविधा:-स्त्रीपुनपुंसकयोनयोऽपि, मनुष्या अप्येवं त्रैविध्ययोनिभाजः, देवाः स्त्रीपुंयोनय एव, तथाऽपरं मनुष्ययोनेस्त्रैविध्यं, तद्यथा-कूर्मोन्नता, तस्यां चाहत्चक्रवर्त्यादिसत्पुरुषाणामुत्पत्तिः, तथा शङ्खावर्ता, सा च स्त्रीरत्नस्यैव, तस्या च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशीपत्रा, सा च प्राकृतजनस्येति, तथाऽपरं त्रैविध्यं नियुक्तिकृद्दर्शयति-तद्यथा अण्डजा: पोतजा: जरायुजाश्चेति, तत्राण्डजा: पक्ष्यादयः, पोतजा: वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच्च भिद्यन्ते, एवमेते त्रसास्त्रिविधयोन्यादिभेदेन प्ररूपिता: एतद्योनिसमाहिण्यौ च गाथेपुढविदगअगणिमारुयपत्तेयनिओयजीवजोणीणं । सत्तग सत्तग सत्तग सत्तग दस चोद्दस य लक्खा ॥१॥ विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसु । तिरियाण होन्ति चउरो चोद्दस मणुआण लक्खाई ॥२॥ (पृथ्व्युदकाग्निमारुतप्रत्येकनिगोदजीवयोनीनाम् । सप्त सप्त सप्त सप्त दश चतुर्दश च लक्षाः ॥१।। विकलेन्द्रियेषु द्वे द्वे चतस्रश्चतस्रश्च नारकसुरयोः । तिरश्चां भवन्ति चतस्रश्चतुर्दश मनुष्याणां लक्षाः ॥२॥) एवमेते चतुरशीतियोनिलक्षा भवन्ति, तथा कुलप-रिमाणं 'कुलकोडिसय-सहस्सा बत्तीसढ़नव य पणवीसा । एगिंदियबितिइन्दिय (सत्तट्ठ य नव य अट्ठोसं च । बेइन्दियतेइंदिय) चउरिदिहरियकायाणं ॥१॥ अद्धत्तेरस बारस दस दस नव चेव कोडिलक्खाइं । जलयरपक्खिचउप्पयउरभुयपरिसप्पजीवाणं ॥२॥ पणवीसं छव्वीसं च सयसहस्साई नारयसुराणं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ।।३।। एगा कोडाकोडी सत्ताणउतिं च सयसहस्साई । पन्नासं च सहस्सा कुलकोडीणं मुणेयव्वा ॥४॥' (कुलकोटिशतसहस्राणि द्वात्रिंशत् अष्टाष्टनव च पञ्चविंशतिः । एकेन्द्रियद्वित्रीन्द्रियचतुरिन्द्रियहरितकायानाम् ।।१।। अर्धत्रयोदश द्वादश
श्री आचारांग सूत्रम्
(१२०)

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146