Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 122
________________ दश दश नव चैव कोटीलक्षाः । जलचरपक्षिचतुष्पदोरोभुजपरिसर्पजीवानाम् ।।२।। पञ्चविंशतिः षड्विंशतिश्च शतसहस्राणि नारकसुरयोः । द्वादश च शतसहस्राणि कुलकोटीनां मनुष्याणाम् || ३ || एका कोटीकोटी सप्तनवतिश्च शतसहस्राणि । पञ्चाशच्च सहस्राणि कुलकोटीनां मुणितव्यानि ।।४।।) अङ्कतोऽपि १६७५००००००००००० सकलकुलसङ्ग्रहोऽयं बोद्धव्य इति । उक्ता परूपणा, तदनन्तरं लक्षणद्वारमाहदंसणनाणचरित्ते चरियाचरिए अदाणलाभे अ । उवभोगभोगवीरिय इंदियविसए य लद्धी य ।। १५६ ।। उवओगजोगअज्झवसाणे वोसुं च लद्धि णं उदया ( ओदइया ) । अट्ठविहोदय लेसा सन्नुसासे कसाए अ ।। १५७ ।। ' दर्शनं' सामान्योपलब्धिरूपं चक्षुरचक्षुवधिकेवलाख्यं, मत्यादीनि ज्ञानानि स्वपरिच्छेदिनो जीवस्य परिणामाः ज्ञानावरणविगमव्यक्तास्तत्त्वार्थ-परिच्छेदाः, सामायिकच्छेदोपस्थाप्य - परिहारविशुद्धि-सूक्ष्मसम्पराययथाख्यातानि चारित्रं, चारित्राचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकानां तथा दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुर्प्राणरसनस्पर्शनाख्या: दश लब्धयः जीवद्रव्याव्यभिचारिण्यो लक्षणं भवन्ति, तथोपयोगः-साकारोऽनाकारश्चाष्टचतुर्भेदः, योगो मनोवाक्कायाख्यस्त्रिधा, अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामविशेषा:, विष्वग्-पृथग् लब्धीनामुदया: - प्रादुर्भावाः क्षीर - मध्वास्रवादयः, ज्ञानावरणाद्यान्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदय:, लेश्या : - कृष्णादिभेदा अशुभाः शुभाश्च कषाययोगपरिणतिविशेषसमुत्था:, संज्ञास्त्वाहारभयपरिग्रहमैथुनाख्याः, अथवा दशभेदा:- अनन्तरोक्ताश्चतस्रः क्रोधाद्याश्च चतस्रस्तथैौघसंज्ञा लोकसंज्ञा च, उच्छ्वासनिःश्वासौ प्राणापानौ, कषायाः कषः-संसारस्तस्यायाः क्रोधादयोऽनन्तानुबन्ध्यादिभेदात् षोडशविधाः । एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रियादीनां लक्षणानि यथासम्भवमव 9 श्री आचारांग सूत्रम् (१२१)

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146