Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 124
________________ श्चिमार्द्धेन-अविरहः सातत्येनावस्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहुर्तमासित्वा पुनः पृथिव्याद्येकेन्द्रियेषूत्पद्यते, प्रकर्षेणाधिकं सागरोपमसहस्रद्वयं च त्रसभावेनावतिष्ठते सन्ततमिति । उक्तं प्रमाणद्वारं, साम्प्रतमुपभोगशस्त्रवेदनाद्वारत्रयप्रतिपादनायाह मंसाईपरिभोगो सत्थं सत्थाइयं अणेगविहं । सारीरमाणसा वेयणा य दुविहा बहुविहा य ।। १६० ।। दारं ।। मांसचर्मकेशरोमनखपिच्छदन्त स्नाय्वस्थिविषाणादि भिस्त्रसजीवसम्बन्धिभिरुपभोगो भवति, शस्त्रं पुनः ‘शस्त्रादिकमिति' शस्त्रं खड्गतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छस्त्रादिकमनेकविधंस्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकारं त्रसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते - सा च शरीरसमुत्था मनः समुत्था च द्विविधा यथासम्भवं, तत्राद्या शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीव्रेति ।। पुनरप्युपभोगप्रपञ्चाभिधित्सयाऽऽह मंसस्स केइ अट्ठा केइ चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणऽट्ठा वहिज्जति ।। १६१ ।। कई वहंति अट्ठा केइ अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधंति वहंति मारंति ।।१६२ ।। मांसार्थ मृगशूकरादयो वध्यन्ते, चर्मार्थं चित्रकादयः, रोमार्थं मूषिकादयः, पिच्छार्थं मयूरगृद्धकपिचुरुदुकादयः, पुच्छार्थं चमर्यादयः, दन्तार्थं वारणवराहादयः, वध्यन्त सति सर्वत्र सम्बध्यत इति ।। तत्र केचन पूर्वोक्त-प्रयोजनमुद्दिश्य घ्नन्ति, केचित्पुनः प्रयोजनमन्तरेणापि क्रीडया घ्नन्ति, तथा परे प्रसङ्गदोषात् मृगलक्षक्षिप्तेषु लेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म - कृष्याद्यनेकप्रकारं तस्य प्रसङ्गः - अनुष्ठान तत्र प्रसक्ताः-तन्निष्ठाः श्री आचारांग सूत्रम् (१२३)

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146